SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥ ४१ ॥ 960456 स्माह मातरम् । किमकाण्डे द्वितीयाण्डमौत्सुक्याद्विभिदे त्वया ? ॥ २७८ ॥ अपूरयिष्यं तेऽवश्य - महं मातर्मनोरथान् । चेदजङ्गमकायो ना - भविष्यं त्वदभाग्यतः ॥ २७९ ॥ तस्मात्तृतीयमण्डं त्वं, चिरं रक्ष विचक्षणे ! । अस्माद्यो भविता सूनुः, स ते दुःखं हरिष्यति ॥ २८० ॥ सोऽनूरुः सारथिश्चक्रे, रथे किरणमालिना । विनताऽपि तृतीयाण्डं, पूर्ण मत्वाऽभिदत् खयम् ॥ २८१ ॥ तस्मादाविरभूद्भोगि-कुलकालो महाबलः । गरुडो विनताखान्तमहोदधिसुधाकरः ॥ २८२ ॥ शैशवेऽपि हि स क्रीडन्निजाहिसुतमृत्युकृत् । विलोक्य कद्र्या विनता, प्रत्यहं क्लेश्यतेऽधिकम् ॥ २८३ ॥ विनतामधुनीरेण, सिञ्चन्तीमवनीवनीम् । विलोक्य गरुडः स्माह, मातः ! किं रुद्यते त्वया ? ॥ २८४ ॥ साऽप्यूचे जीवितस्यार्थे, सपत्न्या दास्यमाश्रिता । तदादेशं भयभ्रान्ता, करोमि प्रतिवासरम् ॥ २८५ ॥ तच्छ्रुत्वा गरुडोsवादीद्दास्यात्त्वं मुच्यसे कथम् ? । साऽप्यूचे यदि वत्स ! त्व-ममृतं स्फुटमानयेः ॥ २८६ ॥ तत्क्वास्त्यम्बेति पृष्टा साऽऽचष्टे वेत्ति पिता तव । स चाश्रमे वदर्याख्ये, तप्यते दुस्तपं तपः ॥ २८७ ॥ तत्क्षणाद्गरुडस्तत्र गत्वा पादौ नमन् पितुः । ज्ञातोऽप्रत्यक्षज्ञानेन, करस्पर्शान्ममैष तुक् ॥ २८८ ॥ ताताहं क्षुधयाक्रान्तस्तन्मे वितर भोजनम् । इत्युक्तो वैनतेयेन, कश्यपस्तमभाषत ॥ २८९ ॥ इतः समीपगे पद्म – सरस्यस्ति महागजः । योजनद्वादशायामस्तन्मानः कच्छपस्तथा ॥ २९० ॥ कोपाटोपोत्कटावेतौ युध्यमानौ परस्परम् । कुर्वाते सरसः क्षोभं, मन्थाद्री इव जङ्गमौ ॥ २९१ ॥ तौ व्यापाद्य यथाखैरं भुङ्क्ष्व छिन्धि क्षुधाव्यथाम् । गत्वैकेन क्रमेणाथ, तौ Jain Education International For Private & Personal Use Only स० टी० ॥ ४१ ॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy