SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सम्यक स०टी० ॥४०॥ सार्य तत् । दृतीकृत्य च तैलेन, पर्यपूरि समन्ततः ॥ २४९ ॥ तत्राहं त्रुडितो भुजे, खलभारं क्षुधातुरः। पिबामि तैलकुम्भानां, दशकं तृषितोऽनिशम् ॥ २५० ॥ तां दृति तैलसम्पूर्णी, स्कन्धे कृत्वाऽर्कतूलवत् । ग्राम ४प्रत्यटितोऽध्वद्राववलम्ब्य गृहेऽगमम् ॥ २५१ ॥ अथ तां दृतिमानेतुं, सङ्केतितमहातरौ । मया निजसुतः प्रेषि, सोऽपि तां तत्र नैक्षत ॥ २५२ ॥ ततः स पादपस्तेन, प्रोन्मूल्य गजराजवत् । दृतिरानीयत ग्रामलोकानां पश्यतां । गृहे ॥ २५३ ॥ अहमप्यात्मनो गेहादुत्थायात्र समागमम् । इत्यसत्यवचश्चेन्मे, तदेभ्यो दत्त भोजनम् ॥ २५४ ॥ शशं स्माह महादक्षा, खण्डापानाऽथ धूर्तिका । भारते सुप्रसिद्धार्थः, श्रुतो रामायणेऽपि सः ॥ २५५ ॥ शशः प्राख्यत्वचिदृष्टः, श्रुतो वेदृक्तिलो द्रुमः? । खण्डापानाऽपि तं प्रोचे, श्रुतं किं न त्वया जनात् ? ॥ २५६ ॥ यत्पाटलीपुरे माषवृक्षादतिगरीयसी । भेरी व्यधायि केनापि, तत्तिलद्रुर्न किं महान् ? ॥ २५७ ॥ व्यूढा तैलनदीत्यत्राप्युत्तरं भारतं शृणु । यद्दन्तिदानसम्भूता, सरित्प्लावयते स्म गाम् ॥ २५८ ॥ यतः-तषां कटतटैभ्रष्टैगजानां मदबिन्दुभिः। प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥ २५९ ॥ यदि दन्तिमदाम्भोभिरभूत्कूलङ्कषा नदी । तथा | तेलान्न जायेत, वाहिनी किं द्रुवाहिनी? ॥ २६ ॥ यच्चोक्तं खलतैलादि, भक्षितं तादृशं मया । तत्राप्याकर्णयोदन्तं, भारतग्रन्थसङ्गतम् ॥ २६१ ॥ यद्राज्यान्निर्गतो भीम, एकचक्रां पुरी गतः । महावलं बकं रक्षो-राज व्यापादयद्रुषा ॥ २६२॥ सहस्रं मद्यकुम्भानां, षोडशाशनखारिकाः । बकायोपस्थितान्यको, भीमो भक्षितवां ॥४०॥ Hann Educat an interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy