________________
स०५७
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः
॥३४॥
अथ द्वितीयं द्विस्थानकाऽऽख्यमध्ययनम् । अथ सख्याक्रमसम्बद्धमेव द्वितीयं द्विस्थानकमारभ्यते, अस्य चायं विशेषसम्बन्धः-इह जैनानां सामान्यविशेपात्मकं वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन निरूप्यते इत्यनेन सम्बन्धेनायातस्याऽस्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, इत्यादि वृत्तितो ज्ञेयम् । साम्प्रतं सूत्रं तच्चेदं
नमो सुयदेवयाप भगवईए । जदत्थि ण लोगे त सव्वं दुपडोयार, तंजहा-जीवच्चेव अजीवच्चेव । तसच्चेव थावरच्चेव १, सजोणियच्चेव अजोणियच्चेव , २ साउयच्चेव अणाउयच्चेव ३, सईदिया चेव अणिदिया चेव ४, सवेदगा चेव अवेदगा चेव ५, सरूवि चेव अरूवि चेव ६, सपोग्गला चेव अपोग्गला चेव ७, संसारसमावन्नगा चेव असं सारसमावन्नगा चेव ८, सासया चेव असासया चेव ९, (सू०५७) _ 'यद्' जीवादिकं वस्तु 'अस्ति' विद्यते, णमित्यलङ्कारे, क्वचित्पाठो 'जदत्थिं च णं' ति, तत्रानुस्वार आगमिकश्वशब्दः पुनरर्थः, एवं चास्य प्रयोग:-अस्ति आत्मादि वस्तु, पूर्वाध्ययनप्ररूपितत्वात्, यच्चास्ति 'लोके' पश्चास्तिकायात्मके, लोक्यते प्रमीयते इति लोकः इति व्युत्पत्त्या लोकालोकरूपे वा तत् “सर्व' निरवशेष द्वयोः पदयोः-स्थानयोः पक्षयोर्विवक्षितवस्तु-तद्विपर्ययलक्षणयोरवतारो यस्य तद् द्विपदावतारमिति, 'दुपडोयाति | क्वचित् पठयते, तत्र द्वयोः प्रत्यवतारो यस्य तद् द्विप्रत्यवतारमिति, स्वरूपवत् प्रतिपक्षवच्चेत्यर्थः, 'तद्यथे'त्युदा
॥३४॥
JainEducation international
For Privals & Fersonal use only
www.jainelibrary.ory