________________
सू०३५४-३५५।
श्रीस्थानाङ्ग
सूत्रदीपिकावृत्तिः ।
॥४०२॥
1.1.0.00000...++0000000+++0000000000++
धनशीलतया-कोपस्वभावतया, प्राभृतशीलतया-कलहनसम्बन्धतया, संसक्ततपःकर्मणा-आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन, निमित्ताजीवनतया-त्रैकालिकलाभालाभादिविषयनिमित्तोपात्ताहाराापजीवनेनेति, तथा अभियोगंव्यापारणमर्हन्तीत्याभियोग्याः-किङ्करदेवविशेषास्तभावः तत्ता तस्य तया वेति, आत्मोत्कर्षेण-आत्मगुणाभिमानेन परपरिवादेन-परदोषपरिकीर्तनेन भूतिकर्मणां-ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन कौतुककरणेन-सौभाग्यादिनिमित्तं परस्नपनकादिकरणेनेति, इयनप्येवमन्यत्र-“कोउय भूईकम्मे, पसिणा इयरे निमित्तमाजीवी । इढिरससायगरुओ, अभिओग भावण कुगइ ॥१॥" प्रश्नोऽङ्गुष्ठप्रश्नादिरितरः स्वप्नविद्यादिरिति, तथा सम्मुह्यतीति सम्मोहः मृहात्मा देवविशेष एव तदभावस्तत्ता तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति, 'उम्मग्ग'त्ति उन्मार्गदेशनया सम्यग्दर्शनादिरूपमार्गातिक्रान्तधर्मप्रकथनेन मार्गान्तरायेण-मोक्षाध्वप्रवृत्तत्तद्विघ्नकरणेन, कामाशंसाप्रयोगेण-शब्दादावभिलापकरणेन, 'भिज्ज'त्ति,लोभो-गृद्धिस्तेन निदानकरणेन, एतस्मात्तपःप्रभृतेश्चक्रवादित्व में भूयादिति निकाचनाकरणेनेति, इयमप्येवमन्यत्र-"उम्मग्गदेसओ मग्गनासओ" इत्यादि, देवानां मध्ये किल्विषः-पापोऽत एवास्पृश्यादिधर्मको, देवश्चासौ किल्विषश्चेति देवकिल्बिषः, शेष तथैव, अवर्णोऽश्लाघा असदोषोदघाटनमित्यर्थः, इह कन्दर्पभावना नोक्ता चतु:स्थानकवादित्यवसेयम् , अयञ्चावंत: प्रवज्यान्वितस्येति प्रवज्यानिरूपणाय 'चउचिहा' पव्वज्जे'त्यादि सूत्राष्टकम्---
चउम्विद्दा पव्वज्जा पंत-हलोगपडिबद्धा परलोगपडिबद्धा दुहओलोगपडिबद्धा अपडिबशा १, चउठिवहा पव्यज्जा तं०-पुर भोपडिबद्धा मग्गओपडिबद्धा दुहओपडिबद्धा अपडिबद्धा २, चउब्विहा पब्बज्जा प० त०
0000००००००००००००००००००००००००००+0000000000000000......
॥४०२॥
Jain Education
For Private & Personal use only
www.jainelibrary.org