SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ सू० ३३९.३४१। भीस्थाना दीपिका वृत्तिः । ......" ॥३८५॥ म्पाद्यानन्दविशेषाणां, शेषं सुगमम् । भोगसौख्याथं च प्रसर्पन्तः कर्म बद्ध्वा नारकत्वेनोत्पधन्त इति नारकानाहारतो निरूपयन्नाइ-'नेरइयाण मित्यादि व्यक्तं, केवलमकारोपमः अल्पकालदाइत्वात, मुर्मुरोपमः स्थिरतरदाहत्वात् , शीतलः शीतवेदनोत्पादकत्वात्, हिमशीतलोऽत्यन्तशीतवेदनाजनकत्वात्, अधोऽध इति क्रम इति । आहाराधिकारात् तिर्यग्मनुष्यदेवानामाहारनिरूपणाय सूत्रत्रय--'तिरिक्खजोणियाण'ति सुगम, नवरं कङ्कः पक्षिविशेषस्तस्याहारेणोपमा यत्र स मध्यमपदलोपात् कङ्कोपमः, अयमों-यथा हि कङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः मुखपरिणामश्च भवति एवं यस्तिरश्चां सुखभक्ष्यः सुखपरिणामश्च स कङ्कोपम इति । तथा बिले प्रविशद् द्रव्य बिलमेव तेनोपमा यत्र स तथा, विले हि अलब्धरसास्वादक झगिति यथा किल किञ्चित्प्रविशति एवं यस्तेषां गलबिले प्रविशति स तथोच्यते । पाणो-मातस्तन्मांसमस्पृश्यत्वेन जुगुप्सया दुःखाद्य स्यादेवं यस्तेषां दुःखाद्यः स पाणमांसोपमः। पुत्रमांसं तु स्नेहपरतया दुःखाधतरं स्यादेवं यो दुःखाद्यतरः स पुत्रमांसोपमः, क्रमेण चैते शुभसमाशुभाशुभतरा वेदितव्याः । 'देवाण"ति, वर्णवानित्यादौ प्रशंसायामतिशायने वा मतुबिति । आहारो हि भक्षणीय इति भक्षणाधिकारादाशीविषसूत्र, मुगमञ्चेद, नवरं, 'आसीविसत्ति आश्यो-दंष्ट्रास्तामु विषं येषां ते आशीविषाः, ते च कर्मतो जातितश्च, तत्र कर्मतस्तियक्मनुष्याः कुतोऽपि गुणादाशीविषाः स्युः, देवाश्चासहस्राराच्छापादिना परव्यापादनादिति, उक्तं च-"आसी दादा तग्गय-महाविसाऽऽसीविसा दुविहभेया ते कम्मजाइभेएण, णेगहा चउव्विहविगप्पा ।।१॥"त्ति, जातित आशीविषा जात्याशीविषाः-वृश्चिकादयः, 'केवइय'त्ति कियान् विषयो-गोचरो विषस्येति गम्यते, प्रभुः-समर्थः, अर्द्धभरतस्य यत्प्रमाणं-सातिरेकत्रिषष्टयधिकयोजनशतद्वयलक्षणं तदेव मात्रा-प्रमाणं यस्याः सार्द्धभरतप्रमाणमात्रा तां बोन्दि-शरीर .04....................6000+++00000000000000 ........................... Jan Education International For Privals & Fersonal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy