SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ सू०३३८ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥३७॥ "जह तुम्भे तह अम्हे, तुम्भे विय होहिहा जहा अम्हे । अप्पाहेइ पडतं, पंडुयपत्तं किसलयाणं ॥॥" ज्ञातमुपाधिभेदात् चतुर्विधं दर्शयति-तत्र-आ-अभिविधिना हियते-प्रतीतौ नीयतेऽप्रतीतोऽर्थोऽनेनेत्याहरणं, यत्र समुदित एव दान्तिकोऽर्थ उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्येवेति, तथा तस्य-आहरणार्थस्य देशस्तद्देशः स चासावुपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र-यत्र दृष्टान्तार्थदेशेनैव दान्तिकार्थस्योपनयनं क्रियते तत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्र सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयननासावर्जितत्वकलङ्कादिनेति, तथा-तस्यैवोदाहरणस्य सम्बन्धी साक्षात् प्रसङ्गसम्पन्नो वा दोषः तद्दोषः स चासौ धर्मेण धम्मिण उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतद्दोष इति । तथा वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञातहेतुत्वादिति, यथा अकर्ता-ऽऽत्मा अमर्त्तत्वादाकाशवदित्युक्ते अन्य आह-आकाशवदभोक्तेत्यपि प्राप्तमित्यादि वृत्तौ । 'अवाए' ति अपायोऽनर्थः स यत्र द्रव्यादिष्वभिधीयते यथैतेषु द्रव्यादिविशेषेष्वस्त्यपायो विवक्षित द्रव्यादिविशेषेविव, हेयता वाऽस्य यत्राभिधीयते तदाहरणमपाय इति, तथा 'उवाए' त्ति उपाय:-उपेयं प्रति पुरुषव्यापारादिका साधनसानग्री स यत्र द्रव्यादावुपेयेऽस्तीत्यभिधीयते यथैतेषु द्रव्यादिविशेषेषु साधनीयेष्वस्त्युपायो विवक्षितद्रव्यादिविशेषवत् , उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपि द्रव्यादिभिश्चतुर्वेति, तत्र द्रव्यस्य सुवर्णादेः प्रासुकोदकादेर्वा द्रव्यमेव वा उपायो द्रव्योपायः, एतत्साधनमेतदुपादेयतासाधनं वाऽऽहरणमपि तथोच्यते For Private & Personal use only ॥३७३३॥ Jain Education Intan www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy