SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सू०३०७ श्रीस्थाना सूत्रदीपिका वृत्तिः । ॥३३४॥ विक्रखंभो ॥१॥"त्ति, तदिद' मतान्तरमित्यवसेयमेवमन्यत्रापि, मतान्तरबीजानि तु केवलिगम्यानीति, 'गोपुच्छसंठाणसंठिए'त्ति गोपुच्छो ह्यादौ स्थूलोऽन्ते सूक्ष्मस्तद्वत्तेऽपीति, 'सर्वजणमय'त्ति, अञ्जन-कृष्णरत्नविशेषस्तन्मयाः सर्व एवानन्यमयत्वेन सर्वथैवाजनमयाः सर्वाजनमयाः, परमकृष्णा इति भावः, उक्त च-"भिंगंगरुइलक जलअंजणधाउसरिसा विरायति । गगणतलमणुलिहंता, अंजणगा पन्चया रम्मा ॥१॥"त्ति, अच्छाः आकाशस्फटिकवत् , सहा-सूक्ष्म(श्लक्ष्ण)परमाणुस्कन्धनिष्पन्नाः, श्लक्ष्णदलनिष्पन्नपटवत् , लण्हा-लक्ष्णा मसृणा इत्यर्थः, घुण्टितपटवत् , तथा घृष्टा इव घृष्टाः, खरशानया पाषाणप्रतिमावत् , मुष्टा इव मुष्टाः, सकुमारशानया पाषाणप्रतिमेव, शोधिता वा प्रमार्जनिकयेव अत एव नीरजसो रजोरहितत्वात , निर्मलाः कठिनमलाभावात् , अकलङ्कत्वाद्वा, निकंकडच्छाया' निष्कङ्कटा निष्कवचा निरावरणेत्यर्थः, छाया-शोभा येषां ते तथा अकलशोभा वा सप्रभावा देवानन्दकत्वादिप्रभावयुक्ताः, अथवा स्वेन-आत्मना प्रभान्ति न परत इति स्वप्रभाः, यतः 'समिरीया' सह मरीचिभिः-किरणेये ते तथाविधा, अत एव 'सउज्जोया' सहोद्योतेन-वस्तुप्रभासनेन वर्तन्ते ये ते तथा 'पासाईय'त्ति प्रासादीयाः-मन:प्रसादकराः दर्शनीयास्तांश्चक्षुषा पश्यन्नपि न श्रम गच्छतीत्यर्थः, अभिरूपाः-कमनीयाः, प्रतिरुपाः-द्रष्टारं द्रष्टारं प्रति रमणीया इति यावच्छब्दसङ्ग्रहः, बहुसमाः-अत्यन्तसमा रमणीयाश्च ये ते, तथा सिद्धानि-शाश्वतानि सिद्धानां वाशाश्वतीनामहत्प्रतिमानामायतनानि-स्थानानि सिद्धायतनानि, उक्त च-"अंजणगपव्ययाण, सिहरतलेसु हवंति पत्तेयं । अरिहंताययणाई', सीहनिसायाई तुंगाई ॥१॥" मुखे-अग्रद्वारे आयतनस्य मण्डपा मुखमण्डपाः पट्टशालारूपाः, प्रेक्षा-प्रेक्षणक तदर्थ गृहरूपा मण्डपाः प्रेक्षागृहमण्डपाः प्रसिद्धस्वरूपाः, वैरं-वन रत्नविशेषस्तन्मयाः आखा ॥३३४॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy