SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सू०२८३-२८४॥ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥३०४॥ भावितस्य शुभपरिणामसम्भवेन तदावरणक्षयोपशमादिभावात् , ज्ञानश्च दर्शनच ज्ञानदर्शनं ज्ञानेन वा सह दर्शनं ज्ञानदर्शनं छाअस्थिक कैवलिक वा तत् समुत्पद्यते, न दृढशरीरस्य, तस्य हि उपचितत्वेन बहुमोहतया तथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येकः, तथाऽमन्दसंहननस्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुत्पद्यते, स्वस्थशरीरतया मनःस्वास्थ्येन शुभपरिणामभावतः क्षयोपशमादिभावान् न कृशशरीरस्यास्वास्थ्यादिति द्वितीयः, तथा कृशस्य दृढस्य वा तदुत्पद्यते विशिष्टसंहननस्याल्पमोहस्योभयथापि शुभपरिणामभावात् कृशत्वदृढत्वे नापेक्षत इति तृतीयः, चतुर्थः मुज्ञानः । ज्ञानदर्शनयोरुत्पादः उक्तोऽधुना तव्याघात उच्यते, तत्र-'चउहि'मित्यादिसूत्र स्फुटं, पर निर्ग्रन्थीग्रहणात् स्त्रिया अपि केवलमुत्पद्यत इत्याह, 'अस्सि"ति अस्मिन् प्रत्यक्ष इवानन्तरप्रत्यासन्ने समये 'अइसेसे'त्ति शेषाणि-मत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलमित्यर्थः, समुत्पत्तकाममपीतीहैवाओं द्रष्टव्यः, ज्ञानादेरभिलाषाभावात् , कथयितेति शीलार्थिकस्तृन् तेन द्वितीया न विरुद्धेति, 'विवेगेण"ति अशुद्धादित्यागेन 'विउस्सग्गेण ति कायव्युत्सर्गेण, पूर्वरात्रश्च-रात्रेः पूर्वो भागोऽपररात्रश्च-रारपरो भागस्तावेव कालः स एव समयः-अवसरो जागरिकायाः एवं पूर्वरात्रापग्गत्रकालसमयम्तम्मिन कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका-निद्राक्षयेण बोधो धर्मजागरिका, भावप्रन्युपेक्षेत्यर्थः, यथा-"किं कय किं । वा सेस, किं करणिज्ज तवं च न करेमि । पुव्वावरत्तकाले, जागरओ भावपडिलेहा ॥१॥"त्ति इत्यादिरूपा विभक्तिपरिणामात् तया जागरिता-जागरको (जागरितो) भवति, तथा प्रगता असवः-उच्छ्वासादयः प्राणा यस्मात् स प्रासुको निर्जीवस्तस्य एष्यते-गवेष्यते उद्गमादिदोषपरिहारतयेत्येषणीयः-कल्प्यस्तस्य उच्यते 1000000000000000000000000000000000000000000000000000000000000001 s܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥३०४॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy