SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सू०२६१-२६३। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२८॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ एते च देवाः संसारिण इति संसारसूत्र, तत्र संसरणमितश्चेतश्च परिभ्रमण संसारः, तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्याणां वा-जीवपुद्गललक्षणानां यथायोग भ्रमण द्रव्यसंसारः, तेषामेव क्षेत्रे-चतुर्दशरज्ज्वात्मके यत् संसरण स क्षेत्रसंसारः, यत्र वा क्षेत्रे संसारो व्याख्यायते तदेव क्षेत्रमभेदोपचारात् संसारो यथा रसवती गुणनिकेत्यादि, कालस्य-दिवसपक्षमासर्वयनसंवत्सरादिलक्षणस्य संसरण चक्रन्यायेन भ्रमण पल्योपमादिकालविशेषविशेषित वा यत्कस्यापि जीवस्य नरकादिषु स कालसंसारः, यस्मिन् वा काले-पौरुष्यादिके संसारो व्याख्यायते स कालोऽपि संसार उच्यते अभेदाद् , यथा प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति, तथा संसारशब्दार्थज्ञः तत्रोपयुक्तो जीवपुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्य भावानां वौदयिकादीनां वा वर्णादिनां संसरणपरिणामो भावसंसार इति ॥ अयं च द्रव्यादिसंसारोऽनेकनयैदृष्टिवादे विचार्यते इति दृष्टिवादसूत्रम् चउब्बिहे दिडिवाण ५० त०-परिकम्म सुत्ताइ पुब्वगए अणुजोगे (सू० २६२) । चउब्बिहे पायच्छित्ते प० त०-णाणपायच्छित्ते दसणपायच्छित्ते चरित्तपायच्छित्ते वियत्तकिञ्चपायच्छित्ते १ । चउबिहे पायच्छित्ते ५० त०-पडिसेवणापायच्छित्ते संजोयणापायच्छित्ते आरोवणापायच्छिते पलिउंचणापायच्छिते २ (सू० २६३)। 'बउविहे दिहिवाए'इत्यादि, तत्र दृष्टयो दर्शनानि-नया उद्यन्ते-अभिधीयन्ते पतन्ति वा-अवतरन्ति यस्मिन्नसौ दृष्टिवादो दृष्टिपातो वा-द्वादशमङ्गम् , तत्र सूत्रादिग्रहणयोग्यतासम्पादनसमर्थ परिकर्म, गणितपरिकर्मवत् , तच्च सिद्धसेनिकादि, सूत्राणीति ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणीति, समस्तश्रुतात पूर्व करणात् पूर्वाणि, तानि चोत्पादपूर्वादीनि चतुर्दशेति, एतेषां चैव नामप्रमाणानि तद्यथा ॥२८॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy