________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥२१७॥
Jain Education International
'ति विदे' इत्यादिसूत्राणामेकोनविंशतिः, स्पष्टा चेयम् परं प्रज्ञापना-भेदाद्यभिधानं तत्र ज्ञानप्रज्ञापनाआभिनिबोधिकादि पञ्चधा ज्ञानम्, एवं दर्शनं क्षायिकादि त्रिधा, चारित्र सामायिकादि पञ्चधेति, समञ्चतीति सम्यगविपरीतं मोक्षसिद्धिं प्रतीत्यानुगुणमित्यर्थः तच्च ज्ञानादीनि उपहननमुपघातः, पिण्डशय्यादेरकल्प्यतेत्यर्थः, तत्र उद्गमनमुद्गमः पिण्डादेः प्रभव इत्यर्थः, तस्य चाधाकर्मादयः पोडश दोपाः, 'आहाकम्मु' इत्यादि, इह चाभेदविवक्षया उद्गमदोषा एवोद्गमोऽतस्तेनोद्गमेनोपघातः-पिण्डादेर कल्पनीयता करण ं चरणस्य वा शबलीकरण मुद्गमोपघातः, उद्गमस्य वा पिण्डादिप्रसूतेरुपघातः- आधा कर्मत्वादिभिर्दुष्टतोद्गमोपघातः, एवमितरावपि, केवलमुत्पादनासम्पादन गृहस्थात् पिण्डादेरुपार्जनमित्यर्थः, तदोपा धात्रीत्वादयः पोडश, 'धाईदुई' इत्यादि, तथा एषणा - गृहिणा दीयमानपिण्डादेब्रेण तद्दोषाः शाङ्कितादयो दश 'संकियमक्खिय' इत्यादि, 'एवं विसोही 'त्ति, एवमुद्गमादिभिर्दोषरविद्यमानतया वा विशुद्धि: - पिण्डचरणादीनां निर्दोषता सा उद्गमादिविशुद्धिरुद्गमादीनां वा विशुद्धिर्या सा तथेति । 'तिविहाराहण'त्ति ज्ञानस्य श्रुतस्याराधना - कालाध्ययनादिष्वष्टस्वाचारेषु प्रवृत्त्या निरतिचारपालना ज्ञानाराधना, एवं दर्शनस्य निःशङ्कितादिषु, चारित्रस्य समितिगुप्तिषु सा चोत्कृष्टादिभेदा भावभेदात् कालभेदाद्वेति, ज्ञानादिप्रतिपतनलक्षणः सविश्यमानपरिणामनिबन्धनो ज्ञानादिसकलेशः, ज्ञानादिविशुद्धिलक्षणो विशुद्धयमानपरिणामहेतुकस्तदसङ्गवलेशः । 'एव' मिति, ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, राधाकर्माश्रित्य चतुर्णामपि निदर्शनम्"आहाकम्मामंतण, पडिमुणमाणे अकमो होड़ । पयभेयाइ वकम, गरिए तःएयरो गिलिए ||१|| "त्ति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि एतदुद्देशेन ज्ञानदर्शनयोस्त ु पग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय
For Private & Personal Use Only
सु० १९६ ।
॥२१७॥
www.jainelibrary.org