SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सू०१६३। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१७॥ -00000000000000000000000000000000000000000000000000000000 भूमगनरा १७ तहतरदीवा १८ । भावदिसा दिस्सइ ज, संसारी निययमेयाहिं ॥२॥"ति, इह च क्षेत्रतापप्रज्ञा॥ पकदिग्भिरेवाधिकारः, तत्र तिर्यग्रहणेन पूर्वाद्याश्चतप्त एव दिशो गृह्यन्ते,विदिक्षु जीवानामनुश्रेणिगामितया वक्ष्यमाणगत्यागतिव्युत्क्रान्तीनामयुज्यमानत्वात् , शेषेषु पदेषु च विदिशामविवक्षितत्वात् , यतोऽत्रैव वक्ष्यति,-"छहिं दिसाहिं जीवाणौं गई पवत्तइ" इत्यादि, तथा ग्रन्थान्तरेऽप्याहारमाश्रित्योक्त-"निवाघाएण नियमा छदिसिं"ति, तत्र 'तिहिं दिसाहिति सप्तमी तृतीया पञ्चमी वा यथायोगं व्याख्येयेति, 'गतिः'-प्रज्ञापकप्रत्यासन्नस्थानापेक्षया मृत्वाऽन्यत्र गमनम् , 'एब'मिति पूर्वोक्ताभिलापसूचनार्थः, 'आगति:'-प्रज्ञापकप्रत्यासन्नस्थाने आगमनमिति, व्युक्रान्तिः-उत्पत्तिः, आहारः प्रतीतः, वृद्धिः-शरीरस्य वर्द्धन, निवृद्धिः-शरीरस्यैव हानिः गतिपर्यायश्चलन जीवत एव, समुद्घातो-वेदनादिलक्षणः, कालसंयोगो-वर्तनादिकाललक्षणानुभूतिः मरणयोगो वा, दर्शनेन-अवध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो-बोधो दर्शनाभिगम इति । “तिहिं दिसाहिं जीवाणं अजीवाभिगमे पं० त०-उड्ढाते.... ३, एवं पंचिंदियतिरिक्खजोणियाण एवं मणुस्साणवि' एवं सर्वत्राभिलपनीयमिति दर्शनार्थ परिपूर्णान्त्यसूत्राभिधानमिति । एतान्यपि जीवाभिगमान्तानि सामान्येन जीवसूत्राणि, चतुर्विंशतिदण्डकचिन्तायां तु नारकादिपदेषु दिकत्रये गत्यादीनां त्रयोदशानामपि पदानां सामस्त्येनासम्भवात् पञ्चेन्द्रियतिर्यग्मनुष्येषु च तत्सम्भवात् तदतिदेशमाह-एव'मित्यादि, यथा सामान्यसूत्रेषु गत्यादीनि त्रयोदशपदानि दिक्त्रये अभिहितानि, एवं पञ्चेन्द्रियतिर्यग्मनुष्येष्विति भावः, एवं चैतानि पइविंशतिः सूत्राणि भवन्तीति ॥ अथैषां नारकादिषु कथमसम्भव इति ? उच्यते, नारकादीनां द्वाविंशतिजीवविशेषाणां नारकदेवेषत्पादाभावार्ध्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा ॥१७७॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy