SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सू० १६१-१६२। श्रोस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१७॥ 00000000000000000000000000000000000000000000000000000. आलापकाः-सूत्राणि कालविशेषाश्रयाः सुमना दुर्मना नोसुमनानोदुर्मना इत्येतत्पदत्रयवन्तो भणितव्याः, एतदेव दर्शयन्नाह-'सह'मित्यादि, भावितार्थम् , 'एवं रूवाई गंधाई'इत्यादि, यथा शब्दे विधिनिषेधाभ्यां त्रयस्त्रय आलापका भणिता एवं 'रूवाई पासित्ते'त्यादयः त्रयस्त्रय एव दर्शनीयाः, एवञ्च यद् भवति तदाह-'एक्के' इत्यादि, एकैकस्मिन् विषये पडालापका भणितव्या भवन्तीति, तत्र शब्दे दर्शिता एव, रूपादिषु पुनरेवं-रूपाणि दृष्ट्वा सुमना दुर्मना अनुभयं १ एवं पश्यामीति २ एवं द्रक्ष्यामीति ३ एवं अदृष्ट्वा ४ न पश्यामीति ५ न द्रक्ष्यामीति ६ पद, एवं गन्धान् घात्वा ६ रसानास्वाद्य ६ स्पर्शान् स्पृष्ट्वेति ६ । 'तहेव ठाणा यत्ति यत्सङ्ग्रहगाथायामुक्त तद् भावयन्नाह-'तओ ठाणा' इत्यादि, त्रीणि स्थानानि निःशीलस्य-सामान्येन शुभभाववर्जितस्य विशेषतः पुनः निव्रतस्य-प्राणातिपाताद्यनिवृत्तस्य निर्गुणस्योत्तरगुणापेक्षया, निमर्यादस्य लोककुलाद्यपेक्षया, निष्प्रत्याख्यानपौषधोपवासस्य-पौरुष्यादिनियमपर्वोपवासरहितस्य गर्हितानि-जुगुप्सितानि भवन्ति, तद्यथा-'अस्सि"ति विभक्तिपरिणामादयं लोकः-इदं जन्म गर्हितो भवति, पापप्रवृत्त्या विद्वज्जनजुगुप्सितत्वात् , तथा उपपातः-अकामनिर्जरादिजनितः किल्बिषिकादिदेवभवो नारकभवो वा, 'उपपातो देवनारकाणा'मिति वचनात् , स गर्हितो भवति किल्विपिकाभियोग्यादिरूपतयेति, आजातिः-तस्माच्युतस्योवृत्तस्य वा कुमानुषत्वतिर्यक्त्वरूपा गर्हिता, कुमानुषादित्वादेवेति । उक्तविपर्ययमाह-'तओ'इत्यादि, निगदसिद्धम् ॥ एतानि च गर्हितप्रशस्तस्थानानि संसारिणामेव भवन्तीति संसारिजीवनिरूपणायाह तिविहा संसारसमावनगा जीवा पं० त०-इत्थी पुरिसा नपुंसगा, तिविहा सर्ज.वा पं० त०-सम्महिट्ठी ॥१७४॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy