SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सू० ९०॥ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२७॥ 00000000000000000000000000000000000000000000000000 "जम्बुद्दीवे' इत्यादि सूत्रद्वयं, 'पभासिसु वत्ति प्रभासितवन्तौ वा प्रकाशनीयमेवं प्रभासयतः प्रभासयिष्यतः, चन्द्रयोश्च सौम्यदीप्तिकत्वात् प्रभासनमात्रमुक्तम् , आदित्ययोश्च खररश्मित्वात् तापितवन्तौ वा एवं तापयतः तापयिष्यतः इति वस्तुतस्तापनमुक्तम् , अनेन कालत्रयप्रकाशनभणनेन सर्वकाल चन्द्रादिभावानामस्तित्वमुक्तम् , अत एवोच्यते-'न कदाचिदर्नादृश जगदिति । द्विसङ्ख्यत्वाच्चन्द्रयोस्तत्परिवारस्यापि द्वित्वमाह 'दो कत्तिए' इत्यादिना 'दो भावकेऊ 'इत्येतदवसानेन ग्रन्थेन, सुगमश्चाय, नवरं द्वे कृत्तिके नक्षत्रापेक्षया, न तु तारिकापेक्षयेत्येवं सर्वत्रेति, 'कत्तिए 'त्यादिगाथात्रयेण नक्षत्रसूत्रसङ्ग्रहः, कृत्तिकादीनामष्टाविंशतिनक्षत्राणां क्रमेणाग्न्यादयोऽष्टाविंशतिरेव देवता भवन्ति, ता आह-द्वावग्नी १ एवं प्रजापती २ सोमौ ३ रुद्रौ ४ अदिती ५ बृहस्पती ६ सप्पौं ७ पितरौ ८ भगौ ९ अर्यमणौ १० सवितारौ ११ त्वष्टारौ १२ वायू १३ इन्द्राग्नी १४ मित्रौ १५ इन्द्रौ १६ निर्ऋती १७ आपः १८ विश्वौ १९ ब्रह्माणौ २० विष्णू २१ व २२ वरुणौ २३ अजौ २४ विवृद्धी २५ ग्रन्थान्तरे अहिर्बुध्नायुक्तौ, पूषणौ २६ अश्विनौ २७, यमाविति २८, ग्रन्थान्तरे पुनरश्विनीत आरभ्यता एवमुक्ताः-"अश्वियमदहनकमलज-शशिशूलभृददितिजीवफणिपितरः । योन्यर्यमदिनकृत्त्वष्टपवनशक्राग्निमित्राख्याः ॥१॥ ऐन्द्रो निक्रतिस्तोय, विश्वो ब्रह्मा हरिर्वसुर्वरुणः । अजपादोहिर्बुध्नः, पूषा चेतीश्वरा भानाम् ॥२॥" अङ्गारकादयोऽष्टाशीतिग्रहाः सूत्रप्रसिद्धाः, केवलमस्मदृष्टपुस्तकेषु केषुचिदेव यथोक्तसङ्ख्या संवदतीति सूर्यप्रज्ञप्त्यनुसारेणासाविह संवादनीया, तथाहि-तत्सूत्रमित्यादि वृत्तितो ज्ञेयम् । जम्बूद्वीपाधिकारादेवेदमाह ॥२७॥ Jain Education International For Privals & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy