________________
स्थूल०
॥१॥
उपोद्घातः
आविद्वदङ्गनाजनं नाविदितचरमेतद्यदुत नास्यामखिलायामपि चतुर्विंशतावभूत् योगीन्द्रस्तादृशो याह भगवान् अनुत्तरश्रुतवली स्थूलभद्रः, अपरे हि योगिपुरन्दराः पुरस्कृत्य मोहमहामल प्रभाव पृथ्वीवरधर्षणाप्रतिमसामर्थ्य धर्मराजीयसदागमोदितं परी - वारं दधिरेऽप्रतिमं ब्रह्मचर्य परमब्रह्मसाधकम्, अयं तु शुभवान् सानुरागां द्वादशाब्दी भुक्तपूर्वी साधारणाङ्गनां घड़साहृतिश्चित्रशालोषितो हावभावाभिनयनास्त्रमध्य कृतावस्थितिरपि अविकलमाबिभरांचकार शीलसन्नाहमव्याबाधसुखप्राणावनचणं । बिभिदे च तत्रभवता कामरागं समूलकाषंकषित्वा रागकेसरी जगदान्ध्यकृत्, चित्रं वृहत्तरमेतत्ततोऽपि यदयं शस्त्रीचकार मोहनास्त्रं मोहिनीं पणाङ्गनां प्रतिबोध्य मोहमल्लमृतये, येन विफलीभूतानि सिंहगुहा निवासिरथकारभावप्राणप्रणाशनालम्भविष्णूनि रागास्त्राणि, न केवलमेतदेव किंतु तदेव मोहनिवासयुग्मं कृतं धर्मसात्तयैव । तदेवमवेत्य विपश्चिन्न कश्चिदूनतामाख्यातुं स्याल्लब्धावकाशो भगवत उक्तप्रभावे । इदमेव च बीजं चरित्रकीर्त्तने प्रभूणां कविमतल्लिकानां, यतो बोभोत्येवासाधारण गुणश्रेणिमवशम्य रागात्तन्निबन्धेनाऽनन्यजन्याऽध्यवसायसंहतिर्गुणरत्नाकराणां भव्यानां धर्मजीवातुः मन्ये च सुस्पष्टमेतदन्वभविष्यत् पाठको यद्यभविष्यत् प्रकृतचरित्रनायकचारि - मोद्यान सौरभमपः, न च विवादावसथमेतद्यदुत शीलमेव शिवसुन्दरीप्राणवशीकृतिसत्यङ्कारः, ऋते एतत् जलमन्थनानुकारमेवाखिलकर्मखिलीकारप्रत्यलमप्यशेषमनुष्टानमागमोदितम्, अनैकान्तिकत्वाघ्रातत्वात्समरतस्य तस्य, इदं त्वेकान्तविहितर। गद्वेषमल्लविदारणं, यतः प्रतिपक्ष एतस्य नोद्यच्छति कदाचनापि मोहमल्लादपरतन्त्रोऽवस्थातुमपि तदवश्यमशीलनीयमन्वहमाईती यानवशीलप्रासादली
॥ १ ॥
Jain Education International
चरित्रम्
For Private & Personal Use Only
www.jainelibrary.org