SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ॥ अथ क्रियास्थानाख्यं द्वितीयमध्ययनम् ॥ - +- - ___साम्प्रतं द्वितीयश्रुतस्कन्धे द्वितीयं क्रियाध्ययन प्रारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने पुष्करिणी-पुण्डरीकदृष्टान्तेन तीथिकाः सम्यङमोक्षोपायाभावात्कर्मणां बन्धकाः प्रतिपादिताः सत्साधवश्च सम्यग्दर्शनादिमोक्षमार्गप्रवृत्तत्वात् कर्मणां मोचकाः सदुपदेशदानतो परेषामपीति, तदिहापि यथा कर्म द्वादशभिः क्रियास्थानबध्यते यथा च त्रयोदशेन मुच्यते तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते, तथाहि सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु किरियाठाणे नामं अज्झयणे पन्नत्ते, तस्स णं अयमढे (पन्नत्ते-) इह खलु संजूहेणं दुवे ठाणा एवमाहिजंति-धम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । ____ व्याख्या-सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह-श्रुतं मया आयुष्मता भगवतैवमाख्यातं-इह खलु क्रियास्थानं नामाध्ययनं भवति, तस्य चायमर्थः इह खलु 'संजूहेणं 'ति सामान्येन संक्षेपेण च द्वे स्थाने भवतः । य एते क्रियावन्तस्ते सर्वेऽप्यनयोः स्थानयोरेवमाख्यायन्ते-धर्मे चैव अधर्मे चैव, इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च । कारणशुद्ध्या च कार्यशुद्धिर्भवतीत्याह-उपशान्वं यत्तद्धर्मस्थानं अनुपशान्तमधर्मस्थानं । लोकस्तु प्रायेणाधर्मप्रवृत्तो भवति, पश्चात्स Jain Education For Private & Personal Use Only jainebrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy