________________
Jain Education Internat
शीतलीभूताः, तथा त एवं ' सर्वात्मतया ' सर्वसामर्थ्येन सदनुष्ठाने उद्यमं कृतवन्तो, ये चैवम्भूतास्ते अशेषकर्मक्षयं कृत्वा परिनिर्वृचाः, अशेषकर्म्मक्षयं कृतवन्त इति । ब्रवीमीति पूर्ववत् । अथाध्ययनोपसंहारार्थमाह
एवं से भिक्खू धम्मट्ठी धम्मविऊ नियागपडिवन्ने, से जहेयं बुइयं अदुवा पत्ते पउमवरपुंडरीयं अदुवा अपत्ते पउमवरपुंडरीयं । एवं से भिक्खू परिन्नायकम्मे परिन्नायसंगे परिन्नाय - गिहवासे उवसंते समिए सहिये सया जए, से एवं वयणिज्जे, तं जहा
व्याख्या - एवं स भिक्षुर्धम्र्म्मार्थी यथावस्थितं परमा[र्थतो ] ( 2 ) धर्मं सर्वोपाधिविशुद्धं जानातीति धर्मवित् तथा' नियागः संयमो विमोक्षो वा, तं प्रतिपन्नः - नियागप्रतिपन्नः स चैवम्भूतः पञ्चमपुरुषजातः, तं चाऽऽभित्य तद्यथेदं प्राक् प्रदर्शितं, तत्सर्वमुक्तं, स च प्राप्तो वा स्यात् पद्मवरपौण्डरीकमनुग्राह्यं पुरुषविशेषं चक्रवर्ण्यादिकं, तत्प्राप्तिश्च परमार्थतः केवलज्ञानावाप्तौ सत्यां भवति, साक्षाद्यथावस्थित वस्तुस्वरूप परिछित्तेः, अप्राप्तो वा स्यान्मतिश्रुतावधिमनःपर्यायज्ञानैर्ग्यस्तैः समस्तैर्वा समन्वितः । स चैवम्भूतो भिक्षुः परिज्ञातकर्मा (दिविशेषणविशिष्टो भवतीत्येतद्दर्शयितुमाह - ) सम्भूतो भिक्षुः 'परिज्ञातकर्मा' परिज्ञातकर्म्मस्वरूपः परिज्ञातसङ्गः परिज्ञातगृहबासः, तथोपशान्तः, [ इन्द्रियनो ]इन्द्रियोपशमात्तथा समितिभिः समितः, तथा सहितो ज्ञानादिभिः सदा यतः संयतः एवंविधगुणकलापोपेत एतद्वचनीयः - स ईदृशः कथ्यते, (तद्यथा - )
For Private & Personal Use Only
ainelibrary.org