SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ एयगडाङ्ग - स्त्रं दीपिकान्वितम् । कामभोगा! यूयं मया पालिताः परिगृहीता[१], अतो यूयमपीदं दुःखं रोगातक 'परियाइयह 'त्ति विभागशः परिगृहीत यूयं, अत्यन्तपीडयोद्विग्नः पुनस्तदेव दुःखं रोगातक्षं च विशेषणद्वारेणोच्चारयति-[अनिष्टं] अकान्तमप्रियमशुभं, यावदमनोज्ञं दुःखमेव, ततोऽशुभमित्येवम्भूतं ममोत्पन्न, यूयं विमजत, अहमतीव दुःखामि' दुःखित इत्यादि पूर्ववन्नेयं, इत्यतो [ऽमुष्मान्] मामन्यतराहुःखाद्रोगाद्वा प्रतिमोचयत । अनिष्टादित्यादि विशेषणानि पूर्ववव्याख्येयानि, प्रथमं प्रथमान्तानि, पुनर्द्वितीयान्तानि, साम्प्रतं पश्चम्यन्तानि । एवं तेन दुःखोद्विग्नेन प्रतिपादितं परं नैतल्लब्धपूर्व भवति, न हि ते क्षेत्रादयः परिग्रहविशेषाः नापि शब्दादयः कामभोगास्तं दुःखितं दुःखाद्विमोचयन्तीत्येतदेव लेशतो दर्शयति इह खलु कामभोगा नो ताणाए वा[णो]सरणाएवा, पुरिसे वा एगया पुत्विं कामभोगे विप्प- | जहति, कामभोगा वा एगया तं पुरिसं विप्पजहंति, अन्ने खलु कामभोगा अन्नो अहमसि, से किमंगपुण वयं अन्नमन्नेहि कामभोगेहिं मुच्छामो इति संखाए णं वयं च कामभोगे विप्पजहिस्सामो। व्याख्या-इह खल्विमे काममोगा अत्यन्तमभ्यस्ता न 'तस्य' दुःखितस्य त्राणाय शरणाय[वा ] भवन्ति । सुलालितानामपि कामभोगानां पर्यवसानं दर्शयति–'पुरुषो वा' प्राणी 'एकदा' रोगोत्पत्तिकाले जराजीर्ण काले वा अन्यस्मिन्वा राजाद्युपद्रवे ' तान् ' कामभोगान् परित्यजति स वा प्राणी द्रव्याद्यभावे तैः कामभोगैस्त्यज्यते । स च प्राण्येवमव. धारयति-दमे कामभोगा अन्ये तेभ्यश्चाहमन्यः, तदेवमेतेषु परभूतेषु किमिति वयं मृछौं कुर्मः १ एवं केचन महापुरुषाः द्वितीये श्रु. केनाप्यग्रामत्वं कर्मोदयागतसुखदुःखस्य। ॥ २३॥ ॥ २३ ॥ Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy