________________
प्रविजिषुर्वा ' प्रवेदयति ' जानाति, यथा-क्षेत्रं 'वास्तु' गृहं हिरण्यं सुवर्ण धनं धान्यं काँस्य दृष्यं [तथा] विपुलधनकनकरत्नमणिमौक्तिकशङ्खशिलाप्रवालरक्तरत्नादिकं सत्सारं 'स्वापतेयं' द्रव्यजातं सर्व मे, तन् 'मे' ममोपभोगाय भविष्यति । तथा शब्दा: रूपाणि गन्धाः रसाः स्पर्शाः, एते सर्वे खलु मे कामभोगाय भविष्यन्ति, अहमप्येषां योगक्षेमार्थ प्रभविष्यामि, इत्येवं सम्प्रधार्य पूर्वमेवात्मानं विजानीया-देवं पर्यालोचयेत्तद्यथा
इह खलु मम अन्नयरे [ दुक्खे ] रोगातंके समुप्पजेजा अणि? अकंते अप्पिए असुभे अम| गुन्ने अमणामे दुक्खेणो सुहे से हंता, भयंतारो! कामभोगा! इमं मम अन्नतरं दुक्खं रोगायंकं परियाइयह, अणिटुं अकंतं जाव दुक्खं णो सुहं, ताऽहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा इमाओ मं अन्नयराओ दुखाओ रोगातंकाओ परिमोयह, अणिट्ठाओ जाव अमणामाओ दुक्खाओ, णो सुहाओ, एवं नो लद्धपुत्वं भवति । ___ व्याख्या-' इह ' संसारे, खल्वरधारणे । ' इह ' मनुष्यभवे ममान्यतरदुःख-शिरोवेदनादिकं 'आतङ्को' वा आशु. जीवितव्यापहारी शूलादिकः समुत्पद्यते । कीदृशः ? अनिष्टः अकान्तः अप्रियः अशुभः अमनोज्ञः अवनामः दुःखः, दुःख हेतुत्वात् 'णो सुहे' सुखलेशेनाप्यस्पृष्टः, एवंविधः आतङ्क आयाति तदा कामभोगान् प्रत्येवं वक्ति, यथा-'हंत' इति खेदे, भयात्रातारो यूयं क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यादिकाः परिग्रहविशेषाः, तथा शब्दादयो वा विषयाः, हे म[ग]वन्तः !
Jain Education ine
ral
For Private
Personal use
www.jainelibrary.org