SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte पूर्वसंयोगमप्राप्तो विवक्षितस्थानमन्तराल एव कामभोगेषु मूर्छितो विषण्ण इत्यवगन्तव्यमिति तृतीयः पुरुषजातः समाप्तः । अथ चतुर्थ पुरुषजातमधिकृत्याह - अहावरे चत्थे पुरिसजाए नियतिवाइएत्ति आहिज्जति - इह खलु पाईणं [ वा ४ व जाव सेणावइपुत्ता वा, तेसिं च णं एगतीए सड्डी भवइ, कामं तं समणा य महणाय संपहारिंसु गमणाए जाव मए एस धम्मे सुअक्खाए सुपन्नत्ते भवइ ] । व्याख्या - अथ चतुर्थः पुरुषजातो नियतिवादिक आख्यायते स तु नियतिवादी, ( एवमाह - ) नात्र कश्चित्कालेश्वरादिकं कारणं, नापि पुरुषकारः, तेषां नियतिबला देवार्थसिद्धेर्नियतिरेव कारणं, उक्तश्च-" प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि यत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १ ॥ " इत्यादि । " इह खलु पाईणं० " इत्यादिको ग्रन्थः प्राग्वन्नेतव्यो यावदेष धम्म नियतिवादरूपः स्वाख्यातः सुप्रज्ञप्तो भवतीति । स च नियतिवादी स्वाभ्युपगमं दर्शयितुमाह इह खलु दुवे पुरसा भवंति - एगे पुरिसे किरियमातिक्खति एगे पुरिसे णोकिरियमातिक्खति, जे य पुरिसे किरियमाइक्खइ जे य पुरिसे नोकिरियमाइक्खइ, दोवि ते पुरिसा तुल्ला, For Private & Personal Use Only www.jainalibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy