________________
जीवितं भवति। आदहणाए परेहिं निजति.अगणिज्झामिए सरीरे कवोतवण्णाणि अट्रीणि भवंति। ___व्याख्या-'ऊर्ध्व' उपरि पादतलादधश्च केशाग्रमस्तकातिर्यक्त्वपर्यन्तो जीव, एतावता यदेवतच्छरीरं स एव जीवो, नैतस्माच्छरीरावयतिरिक्तः कश्चिदात्माख्यः पदार्थोऽस्तीति यदेतच्छरीरं स एवात्मा । [अयं काय एव] तस्यात्मनः पर्ययः 'कृत्स्नः' सम्पूर्णः 'पर्यायो'ऽवस्थाविशेषः, यावत्कालमिदं शरीरं जीवति तावत्कालं जीवोऽपि जीवति, शरीरे मृते जीवोऽपि म्रियते । यावदिदं शरीरं पञ्चभूतात्मकं अव्ययं * धरति तावदेव जीवोऽपीति, तस्मिंश्च विनष्टे जीवस्यापि विनाशः। [तदेवं यावदेतच्छरीरं वातपित्तश्लेष्माधारं पूर्वस्वभावादप्रच्युतं तावदेव जीवस्य तज्जीवितं भवति, तस्मिंश्च विनष्टे तदात्माजीवोऽपि विनष्ट इति कृत्वा आदहनाय *मशानादौ नीयते, तस्मिंश्च शरीरे अग्निना ध्यामि[ध्मापि]ते कपोतवर्णान्यस्थीनि केवलमुपलभ्यन्ते, परमस्थिव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न दृश्यते, येन तदस्तित्वप्रतीतिरुपजायते, तथा
आसंदीपंचमा पुरिसा गामं पञ्चागच्छति, एवं असंते असंविजमाणे, जोर्स तं असंते असं विजमाणे तेसिं तं सुअक्खायं भवति-अन्नो भवति जीवो अन्नं सरीरं, तम्हा ते एवं नो विप्पडिवेदेति
व्याख्या-तद्वान्धवा जघन्यतोऽपि चत्वार:-'आसन्दी' मञ्चका, स पञ्चमो येषां ते आसन्दीपश्चमाः पुरुषास्तं कायं अग्निना च्यामयित्वा पुनः स्वं ग्राम प्रत्यागच्छन्ति । यदि पुनस्तत्रात्मापि शरीराद्विनः स्यात्ततः शरीरानिर्गच्छन् . * अभङ्ग-मखण्डं।
For Private & Personal de Daly
Jain Education inte
Tww.jainalibrary.org