________________
सुबगडाङ्ग
द्वितीये
श्रुत
दीपिका-1 न्वितम् । ॥१३६॥
तदेवमयमपि 'नः' अस्मदीयोपदेशाम्युपगमो भूतत्वविशेषणविशिष्टः पक्षः किं भवतां नैव नैयायिको' न्यायोपपन्नो भवति ? इदमुक्तं भवति भूतत्वविशेषणेन हि स्थावरोत्पत्रान् हिंसतोऽपि न प्रतिज्ञाऽतिचार इति । अपि च आयुष्मन् गौतम ! तुभ्यमपि रोचते एवमेतद्यथा यया व्याख्यातं । एवमभिहितो गौतमः सदाचं सवाई वा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमवादीत्तद्यथा
सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो ! उदगा! नो खलु अम्हं एयं एवं रोयति, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूविति, नो खलु ते समणा वा निग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति।
___ व्याख्या-आयुष्मन् उदक ! नो खलु अस्मभ्यमेतदेवं, यद्यथा त्वयोच्यते, तद्रोचते, इदमुक्तं भवति-यदिदं त्रस| कायविरतौ भूतत्व विशेषणं क्रियते तन्निरर्थकतयाऽस्मभ्यं न रोचत इति । तदेवं व्यवस्थिते भो उदक ! ये ते श्रमणा
वा ब्राह्मणा वा एवं भृतशब्दविशेषणत्वेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्तथैव भाषन्ते प्रत्याख्यानं स्वतः कुर्वन्तस्तकारयन्तश्चैवमिति सविशेषणं प्रत्याख्यानं भाषन्ते, एवमेव सामान्येन प्ररूपयन्तो न खलु ते श्रमणा वा निर्ग्रन्था वा यथार्थां भाषां भाषन्ते, अपि तु अनुतापिका भाषां भाषन्ते, अन्यथाप्ररूपणे श्रोतुरनुनापो भवति, तेनानुतापित्युच्यते । तथा पुनरपि तेषां सविशेषणप्रत्याख्यानवतामुल्वण(प्रकट )दोषमाह
सप्तमाध्ययने गौतमस्वामिदतोत्तरम् ।
॥१३६ ॥
Jain Education Internet
Far Private & Personal Use Only
S
anelibrary.org