________________
व्याख्या-नानाविधानां खेचराणामुत्पत्तिरेवं द्रष्टव्या, [य]था-चर्मपक्षिणां चर्मकीटवल्गुलीप्रभृतीनां, तथा लोमा पक्षिणां सारस-राजहंस-काक-बकादीनां, तथा समुद्गपक्षि-विततपक्षिणां बहिर्वीपवर्तिनां, एतेषां यथाबीजेन यथाऽवकाशेन चोत्पन्नानामाहारक्रिया एवमुपजायते, तद्यथा-सा पक्षिणी तदण्डकं स्वपक्षाम्यामावृत्य तावत्तिष्ठति यावत्तदण्डकं तद्मणाऽऽहारितेन वृद्धिमुपगतं सत् कललावस्था परित्यज्य चच्चादिकानक्यवान् परिसमापय्य भेदमुपयाति, तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति, शेषं प्राग्वत् । व्याख्याताः पञ्चेन्द्रिया मनुष्यास्तिर्यश्चश्व, तेषां चाहारो द्वेधा-आभोग निर्वतितोऽनाभोगनिर्चितश्च, तत्रानाभोगनिवर्तितः प्रतिक्षणभावी आभोगनिवर्तितस्तु यथास्वं क्षुद्वेदनीयोदयभावीति । साम्प्रतं विकलेन्द्रियानुद्दिश्याह
अहावरं पुरक्खायं इहेगतिया सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणाविहवकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनिदाणेणं तत्थ वुकमा नाणाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सञ्चित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउद्देति । ते जीवा तेसिं नाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारिति । ते जीवा आहारित पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तसथावरजोणियाणं अणुसूयगाणं सरीरा नाणावण्णा जावमक्खायं । एवं दुरूवसंभवत्ताए, एवं खुरदुगत्ताए। [ सू० १७ ]
Jain Education
For Private & Personal Use Only
Jvw.jainelibrary.org