SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ व्याख्या-अथापरमेतदाख्यातं, तदर्शयति-इहास्मिञ्जगत्येके, न सर्वे, तथाविधकम्मोदयवर्तिनो वृक्षयोनिकाः सत्वा भवन्ति तदवयवाश्रिताश्चापरे बनस्पतिरूपा एव प्राणिनो भवन्ति, तथाहि-यो टेको वनस्पतिजीव: सर्वपक्षावयव. व्यापी भवति, तस्य चापरे तदवयवेषु मूलकन्दस्कन्धत्वशाखाप्रवालपुष्पपत्रफलबीजभूतेषु दशसु स्थानेषु जीवाः समु. त्पद्यन्ते । ते च तत्रोत्पद्यमाना वृक्षयोनिकाः वृक्षोद्भवाः वृक्षव्युत्क्रमाचो च्यन्ते त्पद्यन्ते (१) इति, शेषं पूर्ववत् । इह च प्राक्चतुर्विधार्थप्रतिपादकानि सूत्राण्यभिहितानि, तद्यथा-वनस्पतयः पृथिव्याश्रिताः भवन्तीत्येकं १, तच्छरीरमकायादि. शरीरं वाऽऽहारयन्तीति द्वितीयं २, तथा विवृद्धास्तदादारितं शरीरमचित्तं विद्धस्तं च कृत्वाऽऽत्मसात्कुर्वन्तीति तृतीयं ३, अन्यान्यपि तेषां पृथिवीकाययोनिकानां वनस्पतीनां शरीराणि मूलकन्दस्कन्धादीनि नानावर्णानि भवन्तीति चतुर्थ ४, एवमत्रापि वनस्पतियोनिकानां वनस्पतीनामेवंविधार्थप्रतिपादकानि चतुष्प्रकाराणि सूत्राणि द्रष्टव्यानि यावत्ते जीवा वनस्पत्यवयवमूलकन्दादिरूपाः कर्मोपपनमा भवन्तीत्येवमाख्यातम् ॥ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनिदाणेणं तत्थ बुक्कमा रुक्खजोणिएसु रुक्खेसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउदृति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारिति, ते जीवा आहारिति पुढविसरीरं आउ www.jainelibrary.org Jan Education a For Private & Personal Use Only l
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy