________________
आहार्य च स्वकायत्वेन विपरिणामयति, विपरिणामितं च तच्छरीरं स्वकायेन [ सह ] स्वरूपतां नीतं सत्तन्मयतां प्रतिपद्यते । अपराग्यपि शरीराणि मूलशाखाप्रतिशाखापत्रपुष्पफलादीनि तेषां पृथिवीयोनिकानां वृक्षाणां नानावर्णानि, तथाहि स्कन्धस्यान्यथाभूतो वर्णो मूलस्य चान्यादृश इति, एवं यावन्नानाविधशरीरपुद्गल विकुर्वितास्ते भवन्तीति, तथाहि-नानारसवीर्यविपाका नानाविधपुद्गलोपचयात्सुरूपकुरूपसस्थानास्तथा दृढाल्पसंहननाः शस्थूलस्कन्धाश्च भवन्त्येवमादिनानाविधस्वरूपाणि शरीराणि विकुर्वन्तीति स्थितम् । ' ते जीवा कम्मोववन्नगा' ते च जीवास्तत्र-वनस्पतिषु तथाविधकर्मणा उपपन्नगास्ते चेदं एकेन्द्रियजातिस्थावरनामवनस्पतियोग्यायुष्कादिकमिति, तत्कर्मोदयेन तत्रोत्पन्ना:-कम्मोत्पन्ना इत्युच्यन्ते, न पुनः कालेश्वरादिना तत्रोत्पाद्यन्ते इत्येवमाख्यातं तीर्थकरादिभिरिति । एवं पृथिवीयोनिका[वृक्षा] उक्ताः, साम्प्रतं तद्योनिकेष्वेव वनस्पतिषु परे समुत्पद्यन्ते इत्येतदर्शयितुमाह
अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तजोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनिदाणेणं तत्थ वुकमा पुढविजोणिएहिं रुक्खेहि रुक्खत्ताए विउदृति, ते जीवा तेसिं पुढविजोणियाणं रुक्खाणं सिणेहमाहाति । ते जीवा आहारेंति पुढविसरीरं आउतेउवाउवणस्सइसरीरं नाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरगं पुवाहारितं तयाहारियं विप्परिणयं सारूविकडं संतं अवरे विय णं तेर्सि
For Pas Personale
G
Jan Education
eejainelibrary.org