SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ अहे णरगतलपइट्ठाणे भवति (सू० २०)॥ व्याख्या-एवमेव पूर्वोक्तस्वभावा, एवं ते निष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि कर्णनाशाविकर्तनादिना दण्डपातनस्वभावाः स्त्रीप्रधानाः कामास्तेषु मूञ्छिता गृद्धा ग्रथिता अध्युपपन्नाः, ते च ते भोगासक्ता व्यपगतपरलोकभयाः यावद्वपीणि चतुःपश्च षट्सप्त वा दश वाऽल्पतरं वा प्रभूततरं वा कालं भुक्त्वा भोगभोगान् तथा परपीडोत्पादनतो वेराऽनुबन्धान प्रवियो-पाद्य तथा सश्चयित्वा 'बहुनि' प्रभृततरकालस्थितिकानि 'कृराणि' दारुणानि नरकादिषु यातनास्थानेषु ककचपाटनतप्तत्रपुपानात्मकानि कर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिधत्तनिकाचनावस्थानि विधाय तेन च सम्भारकृतेन कर्मणा प्रेर्यमाणास्तकर्मगुरवो वा नरकतलप्रतिष्ठाना भवन्ति । अस्मिन्नर्थे सर्वलोकप्रतीतं दृष्टान्तमाह-' से जहा नामए अयगोले' इत्यादि, तद्यथा नाम 'अयोगोलको ' लोहगोलक [ शिलागोलको-वृत्ताश्मशकलं वा ] उदके प्रक्षिप्तः सन् सलिलतलमतिवा-तिलध्याऽधोधरणितलप्रतिष्ठानो भवति । अथ दार्शन्तिकमाह-'एवमेवे 'त्यादि, यथाऽसावयोगोलकः शीघ्रमेवाधो यात्येवमेव तथाप्रकारः पुरुषजातः, तमेव लेशतो दर्शयति-'वज्रबहुलो' वज्रवद्गुरुत्वाकर्म, तबहुला, बङ्ख्यमानकर्मगुरुः, तथा धूयत इति [धूतं-] प्रारबद्धं कर्म, तत्प्रचुरः, तथा 'पत' पापं तद्वहुलः, तथा वैरबहुला, तथा 'अप्पत्तिय'ति अप्रत्ययवहुला, तथा 'मायाबहुल:' कपटबहुल:, तथा निकृति- या वेषभाषापरावृत्तिच्छमना परद्रोहबुद्धिस्तन्मयः, तथा सातिबहुल:, हीनद्रव्यस्य सातिशयेन द्रव्येण संयोजन सातिस्तद्वहुल:-तत्करणप्रचुरः, तथा अयशो बहुलः, स एवम्भूतः पुरुषः कालमासे कालं कृत्वा नरकतलप्रतिष्ठानो भवति । Jain Education inte For Private & Personal use only jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy