SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्र दीपिकान्वितम्। | अणारिएहिं कजंति, ततो वि अप्पडिविरया जावजीवाए व्याख्या-ते अनार्याः स्वत एव हननादिकाः क्रियाः कुर्वाणा अपरेपामपि एवमेवोपदेशं ददति । तत्र हननं दण्डा. दिभिस्तत्कारयन्ति । तथा छिन्धि कर्णादिकं, भिन्दि शूलादिना 'विकतकाः' प्राणिनां चर्मापनेतार; अत एव लोहितपाणया, तथा [चण्डाः] । 'रौद्रा'निस्त्रिंशाः, क्षुद्राः क्षुद्रकर्मकारित्वात् , तथा साहसिकाः असमीक्षितकारित्वात् , तथोकुश्चनवचनमायानिकृतिकूटकपटादिभिः सहातिसम्प्रयोगो-गाय, तेन बहुलास्तत्प्रचुराः, एते चोत्कुचनादयो मायापर्यायाः, इन्द्रशक्रादिवत् कथश्चिक्रियाभेदेऽपि द्रष्टव्याः+। तथा दुःशीलाश्चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानुनेयदारुणस्वभावा इत्यर्थः । तथा दुष्टव्रताः माँसाभक्षणव्रतकालसमाप्तौ प्रभूततरसचोपधातेन माँसप्रदान, अन्यदपि नक्तभोजनादिकं दुष्टव्रतमिति, तथा दुःखेन प्रत्यानन्द्यन्ते [हर्ष प्राप्यन्ते ] दुष्प्रत्यानन्दा, दुराराध्या इत्यर्थः, उपकारेऽपि दोषमेव गृहन्ति, यत एवमतोऽसाधवस्ते, पापकर्मकारित्वात् , तथा यावजीवतया सर्वस्मादपि प्राणातिपातादविरताः, लोकनिन्दनीयात् स्त्रीहत्याबालब्राह्मणऋषिघातादेरप्यविरताः, एवं मृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभप्रेमद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादरत्य + “ तत्र शूलाधारोपणार्थमूर्ध्व कुञ्चनमुत्कुञ्चनं। वञ्चनं-प्रतारणं, यथाऽभयकुमारः प्रद्योतगणिकाभिर्धर्मवञ्चनया वञ्चितः । माया-वञ्चनबुद्धिः, प्रायो वणिजामिव । निकृतिस्तु बकवृत्त्या देशभाषा दिविपर्ययकरणं । कूटं तुलामानादेन्यूनाधिककरणं । कपटयथाऽऽषाढभूतिना वेषपरावृत्याऽऽचार्योपाध्यायसङ्घाटकात्मार्थ वारंवारं मोदका लब्धाः ।" इति हर्ष। द्वितीये श्रुत द्वितीयाध्ययने. धर्मस्य विशेषवर्णनम् । ॥६२॥ H For Privatespersonal use Only ijainelibrary.org Jan Education inte
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy