________________
Jain Education Int
निर्निमित्तमेव नानाविधोपायैः पीडोत्पादको भवति, तथा जीवितादप्यपद्रावयिता मवति । स च + बालोऽसमीक्षितकारितया जन्मान्तरानुबन्धिवैरस्याभागी भवति । तदेवं निर्निमित्तमेव पञ्चेन्द्रियप्राणिपीडन तो यथाऽनर्थदण्डो भवति तथा प्रतिपादितं, अधुना स्थावरानधिकृत्योच्यते—
से जहा नामए केइ पुरिसे जे इमे थावरा पाणा भवति, तं जहा - इक्कडाइ वा कडि ( कढि ) नाइ वा जंतुगाइ वा परगाइ वा मोक्खाइ वा तणाइ वा कुसाइ वा कुच्छगाइ वा पप्प[प] गाइ वा पलाएइ वा, ते णो पुत्तपोसणयाए नो पसुपोसणयाए नो अगारपरिवहणयाए नो समणमाहणपोसणयाए नो तस्स सरीरगस्स किंचि वि परियाइत्ता भवति । से हंता छेत्ता भेत्ता लंपइत्ता विलंपइत्ता उद्दवइत्ता उज्झिउं वाले वेरस्स आभागी भवति अट्ठादंडे ।
व्याख्या - स यथा नाम कश्चित्पुरुषो निर्विवेकः प[थि]रि ( ? ) गच्छन् [निर्निमित्तमेव] वृक्षादेः पल्लवादिकं दण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति, एतदेव दर्शयति — ये केचनामी - प्रत्यक्षाः स्थावरा वनस्पतिकायिकाः प्राणिनो भवन्ति तद्यथा - ' इकडा' दयो वनस्पतिविशेषाः सुगमार्थाः । तदिहेयमिकडा, ममानया प्रयोजनमित्येवमभि[सं]धाय न + " सद्विवेकमुज्झित्वाऽऽत्मानं वा परित्यज्य बालवद्वाल" इति वृ० वृत्तौ ।
For Private & Personal Use Only
www.jainelibrary.org