________________
सूयगडाल-IVIन सम्यग्विवेचयन्ति, यथाऽयं लोको द्रव्यार्थतया न विनाशी निर्मूलतः कदाचन, न चायमादित आरभ्य केनापि कृत
| इति शाश्वतोऽयं लोकः अनाथपर्यवसानोऽयं लोक इत्यादिपरमार्थ न विदन्ति, ततो अविमृश्य भाषिण इति गाथार्थः ।।९॥ दीपिका- अथ तेषामज्ञानफलोपदर्शनायाहन्वितम् । | अमणुन्नसमुप्पायं, दुक्खमेव विजाणिया । समुप्पायमजाणंता, किह नाहिति? संवरे ॥१०॥ ॥२१॥ ___ व्याख्या-दुःखं अमनोज्ञसमुत्पाद-अमनोज्ञानुष्ठानादनाचारादुःखमुत्पद्यते, एतावता अमनोज्ञसमुत्पादं दुःखं 'विजा
नीयात् ' अवगच्छेत्प्राज्ञः। एतदुक्तं भवति-स्वकृतादसदनुष्ठानादेव दुःखस्योद्भवो भवति, नान्यस्मादित्येवं व्यवस्थिते एते [अनन्तरोक्तवादिनोऽसदनुष्ठानोद्भवस्य दुःखस्य समुत्पादं अजानानाः सन्त ईश्वरादेव दुःखोत्पादमिच्छन्ति, ते हि वराकाः ईश्वरवादिन ईश्वरकृतमेव दुःखं प्रतिपादयन्ति, ते चैवमिच्छन्तः कथं दुःखस्य संवरं-दुःखप्रतिघातहेतुं ज्ञास्यन्ति ? कारणोच्छेदे कार्योच्छेदः, यथा-रोगोत्पत्तिनिदानं ज्ञात्वा तत्प्रतीकाराय यत्नो विधीयते, रोगनिदानमन्यत्तत्प्रतीकारश्चान्य एव विधीयते, कथं तदुपशम: स्यात् , तथैव ते वादिनोऽपि दुःखनिदानमेव न जानन्ति, तच्चाजानानाः कथं ते दुःखोच्छेदाय यतिष्यन्ते ? यत्नवन्तोऽपि च न दुःखोच्छेदनमवाप्स्यन्ति, अपितु संसारारण्ये पर्यटन्तोऽनन्तमपि कालं संस्थास्यन्तीति गाथार्थः ॥१०॥
साम्प्रतं प्रकारान्तरेण कृतवादिमतमुपन्यस्यनाहसुद्धे अपावए आया, इह मेगेसिमाहियं । पुणो किड्डापदोसेणं, सो तत्थ अवरज्झइ ॥११॥
१समयाध्ययने तृतीयो. द्देशक अज्ञानवादिनामज्ञानफलोपदर्शनम् ।
LO
॥२१॥
Jain Educatio
n
al
For Private Personal Use Only
www.jainelibrary.org