________________
संयमानुष्ठायी परिव्रजेत्-संयमं पालयेत् । तेषु प्राणिषु-अपकारिषु मनसापि प्रद्वेषं न गच्छेत् , आस्तां तावद्दवचनदण्डप्रहारादिकं, मनसापि न विरूपकं चिन्तयेत् । अविकम्पमानः ' संयमादविचलन् सदाचारमनुपालयेदिति गाथार्थः ॥ १४ ॥
कालेण पुच्छे समियं पयासु, आइक्खमाणे दवियस्स वित्तं ।
तं सोयकारी य पुढो पवेसे, संखा इमं केवलियं समाहि ॥१५॥ व्याख्या-गुरोरन्तिके वसन् विनयं करोति, कथम् ? आचार्यस्य समीपे अवसरं ज्ञात्वा प्रष्टव्यकाले सूत्रार्थ पृच्छेत् । कथम्भूतस्य गुरोः ममीपे ? 'प्रजासु' सर्वजन्तुषु समितस्य, सदाचारानुष्ठायिन इत्यर्थः । स च गुरुस्तेन पृष्टः आचक्षाणः शुश्रूषयितव्यो भवति । ततश्च 'द्रविकस्य ' मुक्तिगमनयोग्यस्य पुरुषस्य वृत्त-माचारं भाषते, भाषमाणश्च वन्दनीयः पूजा नीयो भवति । तानि च गुरुवचांसि पृथक पृथकश्रोत्रकारी श्रोत्रे-कणे धारयति, यथोपदेशकारी आज्ञाविधायी सन् पृथक हृदये प्रवेशयति-चेतसि स्थापयति । किं कृत्वा ? 'संख्याय' सम्यग् ज्ञात्वा, किम् ? इमं केवलिकं' केवलिना कथितं 'समाधि' सम्यङ्मार्गमाचार्यादिना कथितं स्वहृदये धारयेदिति गाथार्थः ॥ १५॥ किश्च
अस्सि सुठिच्चा तिविहेण तायी, एएसु या संति निरोहमाहु ।
ते एवमक्खंति तिलोगदंसी. ण भुजमेयंति पमायसंगं ॥ १६ ॥ व्याख्या-अस्मिन् गुरुकुलवासे वसता यच्छ्रुतं, श्रुत्वा च हृदयेऽवधारित, तस्मिन् समाधिमार्गे स्थित्वा 'त्रिविधेन'
Jain Education
For Privale & Personal use only
T
w
w.jainelibrary.org