________________
बाहूं पकत्तंति समूलतो से, मुह(थूल) वियासं मुहे आदहंति ।
रहंसि जुत्तं सरयंति बालं, आरुस्स विंधति तुदेण पिढे ॥ ३ ॥ व्याख्या-ते परमाऽधार्मिकास्तिसृषु नरकपृथिवीषु नारकाणां मूलत आरभ्य बाहून् प्रकतयन्ति । अपरासु चतसृषु परमाऽधार्मिकाऽभावान्नारका एव नारकाणां बाहुन् छिन्दन्ति । तथा-अनिच्छतोऽपि नारकस्य ४ मुखं विदार्य बृहत्तप्ता. ऽयोगोले बलादपि मुखे प्रक्षिपन्ति- आसमन्ताहन्ति । तथा-स्थेऽग्निवर्णे योजयन्ति । प्राग्जन्मकृतं दुष्कृतं स्मारयन्ति । वपुपानावसरे त्वं मद्यपश्चासीः, स्वमांसभक्षणावमरे तब माँसमतीव प्रियमासीत-किमिति स्वमाँसं न खादसीति । 'आरुष्य' कोपं कृत्वा प्रतोदेन पृष्ठिदेशे विध्यन्तीति गाथार्थः॥३॥
अयं व तत्तं जलियं सजोयं, तऊवमं भूमिमणुकमंता ।
ते डज्झमाणा कलणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता ॥ ४ ॥ व्याख्या-तप्ताऽयोगोलकसदृशीं ज्वलितां ज्योतिर्भूतां तप्तत्रपूपमा वा भूमी गच्छन्तस्ते दह्यमानाः करुणं 'स्तनन्ति' आरटन्ति । तथा तप्तेषु युगेषु युक्ताश्चमितुमशक्ताः गलिबलीवर्दा इवेषुणा-प्रतोदादिना प्रेरिताः विध्यन्तः करुणमारटन्तीति गाथार्थः ॥४॥
xx एतचिन्हान्तर्गतपाठस्थाने " मुखे विकाशं कृत्वा 'स्थूल' बृहत्तप्तायोगोलादिकं प्रक्षिपन्त" एवमस्ति बृहद्वृत्तौ ।
Jain Education intamation
For Private & Personal Use Only
www.jainelibrary.org