SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सण्डितं स हि गुणस्तेनैव विद्वान् पुमान् ॥४॥ विज्ञानं किमु नोर्णनाभसुगृहीशुप्माशिसादिषु, द्वन्दं किंन लुलायलावककुले मेषे तथा कुकुटे । गीतं नृत्यकला च केकिपिकयोर्वाक् सारिकाकीरयोः, सद्धर्माचरणे परं चतुरता यद्यस्ति मानुष्यके ॥५॥ पुस्तकारम्भादिसंबन्धिसूक्तानि ४१ जडात्मको धारणया विमुक्तो, वक्तुं न वेत्ता विशरारुवादी । प्रस्तावपर्षद्विषयानवेदी, व्याख्याधिकार्येष जनः कथं स्यात् ? ॥१॥ तथाविधः शास्त्रपरिश्रमो मे, नैवास्ति जाड्यं च तथा प्रकामम् । तथापि यत्पुस्तकवाचनाय, प्रवृत्तिरेतद्गुरुपारतन्त्र्यम् ॥२॥ तथा च यत्किचिदिह ब्रुवेऽहं, सोऽयं प्रभावः सकलः प्रभूणाम् । यद्दद्दुरो नृत्यति नागमौलौ, नान्यो नरेन्द्रादिह हेतुरस्ति ॥ ३ ॥ अज्ञानभावानुपयोगबुद्धिवैकल्यमौड्यात्स्मृतिसंभ्रमाद्यत् । उत्सूत्रमत्राभिहितं सुशास्त्रे, मिथ्याऽद्य मे सङ्घपुरस्तदस्तु ॥४॥ क्षन्तव्यमेतद्वहुनिर्मिता नो, यत्साधुसाध्व्योरनुवन्दनेह । सुश्रावकाणां सदुपासकानां, नतौ न च प्रौच्यत धर्मलाभः ॥५॥ द्रव्यादिसाफल्यमतुल्यचेतोनमल्यवात्सल्यगुणान् दधानाः । भव्या भवन्त्यागमवाचनायां, त्रिधा प्रवृत्ताः शुभराजिभाजः॥६॥ समृद्धिवृद्धिप्रभुताप्रतिष्ठा, जिनत्वमन्येऽपि मनोज्ञभावाः । हितोपदेशश्रवणे भवन्ति, ते चात्र शास्त्रे सकला भवन्ति ॥ ७॥ सुच्चा जाणइ कल्लाणं, सुच्चा जाणइ पावगं । उभयपि श्रुत्वा जानाति कल्याणं श्रुत्वा जानाति पापकम् । उभयं (विरता विरतिं)जानाति श्रुत्वा यत् श्रेयस्तत समाचर ॥ ८॥ जिनवचनमोदके रात्री दिवसे च ख्याद्यमाने तृप्तिं बुधो न गच्छति हेतुसहस्रोपगूढे ॥ ९॥ श्रुतसागरोऽपार आयुः स्तोकं जीवाश्च दुर्मेधसः । तकिमपि शिक्षितव्यं यत्कार्यकरं च स्तोकं च ॥१०॥ सर्वमपि लक्षणोपेतं समधितिटंति देवताः । सूत्रं लक्षणोपेतं किं नाधितिष्टंति देवताः ? ॥११॥ सू.मु. ७ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy