SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ कथमध्यवाप्य, वर्षाम्बुभिः शमयति ज्वलनस्य तेजः । दैवादवाप्य ननु नीचजनः प्रतिष्ठां प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ ४ ॥ यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः । विश्रम्य तं द्रुमं हन्ति, तथा नीचः स्वमाश्रयम् ॥ ५ ॥ न टिट्टिभो गच्छति हंसलीलया, न वायसः कूजति कोकिलस्वनम् । यवाः प्रकीर्णा न भवन्ति शालयस्तथैव नीचः प्रकृतिं न मुञ्चति ॥ ६ ॥ रे पक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियो विशालं ? किं मद्धाम्नोऽपि ? वाढं तदिह शठ महापाप ! मा ब्रूहि मिथ्या । इत्थं कूपोदरस्थः शपति तटगतं दर्दुरो राजहंसं, नीचः स्वल्पेन गर्योभवति हि विषया नापरे ये न दृष्टाः ॥ ७ ॥ नाहं काको महाराज !, हंसोऽहं विमले जले । नीचसङ्गप्रबन्धेन, मृत्युरेव न संशयः ॥ ८ ॥ अज्ञातकुलशीलस्य, न दातव्यः प्रतिश्रयः । मत्कुणस्य च दोषेण, हता मैन्दविसर्पिणी ॥ ९ ॥ लूणह घुणह कुमाणुसह, एह तिहुं इकु सहावु । जहीं करइ आवासउ, तहिं तहिं भंजइ ठाउ ॥ १० ॥ उपकारसूक्तानि ३३ शास्त्रं बोधाय दानाय, धनं धर्माय जीवितम् । वपुः परोपकाराय, धारयन्ति मनीषिणः ॥ १ ॥ कियती पञ्चसहस्री ? कियती लक्षाऽथ कोटिरपि कियती ? । औदार्योन्नतमनसां रत्नवती वसुमती कियती ? ॥ २ ॥ क्षेत्रं रक्षति चञ्चा सौध लोलत्पटी कणान् रक्षा । दन्तात्ततृणं प्राणान् नरेण किं निरुपकारेण ? ॥ ३ ॥ अस्ति जल जलराशौ तत्किं क्षारं 9 यूका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy