________________
माधुर्य, नोपयातींद्रवारणम् ॥४॥ खलः सक्रियमाणोऽपि, ददाति कलहं सताम् । दुग्धधौतोऽपि किं याति, वायसः कलहंसताम् ? ॥ ५॥ उपकृतिरेव खलानां दोषस्य महीयसो भवति हेतुः । अनुकूलाचरणेन हि कुप्यन्ति व्याधयो. ऽत्यर्थम् ॥ ६॥ सद्भिः संसेव्यमानोऽपि, शान्तवाक्यैर्जलैरिव । प्लष्टपाषाणवद्दुष्टस्तापमेवाभिमुञ्चति ॥ ७॥ अण्वपि गुणाय गुणिनां महदपि दोषाय दोषिणां सुकृतम् । तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणाम् ॥ ८॥ उपकारिण्यपि सुजने स्निग्धेऽपि खलास्त्यजन्ति न प्रकृतिम् । ज्वलति जलैरपि सिन्धोरङ्के निहितोऽपि वडवाग्निः॥९॥ अशनमात्रकृतज्ञतया गुरोर्न पिशुनोऽपि शुनो लभते तुलाम् । अपि बहूपकृते सखिता खले, न खलु खेलति खे लतिका | यथा ॥ १० ॥ स्नेहेन भूतिदानेन, कृतः स्वच्छोऽपि दुर्जनः । दर्पणश्चान्तिके तिष्ठन् , करोत्ये कमपि द्विधा ॥ ११॥ मक्षिकाः क्षतमिच्छन्ति, क्षतमिच्छन्ति पार्थिवाः। दुर्जनाः क्षतमिच्छन्ति, शान्तिमिच्छन्ति सजनाः ॥ १२॥ दुष्टः प्रविष्टमात्रोऽपि, विपाटयति शिष्टहृत् । सौवीरेऽन्तर्गते क्षीरं, विशीर्येत सहस्रधा ॥ १३ ॥ ऋजुरेप पक्षवानिति काण्डे प्रीति खले च मा काषीं। प्रायेण हि त्यक्तगुणः फलेन हृदयं विदारयति ॥ १४ ॥ क्वचिदुष्णः क्वचिच्छीतः, क्वचित्सा. धारणो मतः। नैकरूपः खलजनः, संनिपात इव ज्वरः ॥ १५ ॥ सर्पाणां च खलानां च, चौराणां च विशेषतः । अभि. प्राया न सिद्ध्यन्ति, तेनेदं वर्तते जगत् ॥ १६॥ अतियत्नगृहीतोऽपि, खलः खलखलायते । शिरसा धार्यमाणोऽपि, तोयस्यार्धघटो यथा ॥ १७ ॥ भग्गं न जायइ घडणं दुजणहिययं कुलालभंडं व । सयखंडोवि घडिजइ कंचणकलसो सुअणचित्तं ॥ १८॥ दुजणजणु बब्बुलवणु जइ सिंचह अमिएण । तो अति कंटावि घणा सारीर हह गुणेण ॥ १९ ॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org