SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Education in मेघः । नीचो वदति न कुरुते न वदति साधुः करोत्येव ॥ १४ ॥ विपदि परेषां सन्तः समधिकतरमेव दधति सौजन्यम् । ग्रीष्मे भवन्ति तरवो घनकोमलपल्लवच्छन्नाः ॥ १५ ॥ तुष्यन्ति भोजनैर्विप्रा, मयूरा घनगर्जितैः । साधवः परसम्पत्त्या, खलाः परविपत्तिभिः ॥ १६ ॥ महतामुदये सन्तो दूरस्थितयोऽपि दधति परितोषम् । नभसि समुद्गत इन्दौ | मुदितं भुवि सिन्धुनाथेन ॥ १७ ॥ नालिकेरसमाकारा दृश्यन्ते केऽपि सज्जनाः । अन्ये तु बदराकारा, बहिरेव मनोरमाः ॥ १८ ॥ सत्पक्षा ऋजवः शुद्धाः, सकला गुणसेविनः । तुल्यैरपि गुणैश्चित्रं, सन्तः सन्तः शराः शराः ॥ १९ ॥ गुणरश्मिमहाभारैर्नितान्तं पूरितान्तराः । सन्तो गौरवमायान्ति, यदि तत्र किमद्भुतम् १ ॥ २० ॥ असंख्यैरपि नात्मीयैः, स्वल्पैरपि परस्थितैः । गुणैः सन्तः प्रहृष्यन्ति, चित्रमेषां विचेष्टितम् ॥ २१ ॥ यथा यथा पर कोटिं, गुणः समधिरो हति । सन्तः कोदण्डधर्माणो, विनमन्ति तथा तथा ॥ २२ ॥ कोटिद्वयस्य लाभेऽपि, नतं सद्वंशजं धनुः । शरस्त्ववंशजः स्तब्धो, लक्षातेरपि शङ्कया || २३ || नमन्ति फलिता वृक्षा, नमन्ति विबुधा जनाः । शुष्ककाष्ठं च मूर्खाश्च, भज्यन्ते न नमन्ति च ॥ २४ ॥ जो गुणवंत सो नमइ निग्गुणु घट्टओ थाइ । अवसि नर्मतां गुण चडइ धणुह कहंतडं जाइ ॥ २५ ॥ वराकः स कथं नाम, नवीभवतु दुर्जनः । आपादमस्तकं यस्य, स्थिता चान्तः कुशीलता ॥ २६ ॥ शुद्धवंशज कोदण्ड !, सरलस्त्वमभूः पुरा । इदानीं गुणसंयोगात्केयं तव तु वक्रता ॥ २७ ॥ निर्गुणमप्यरनुरक्तं प्रायो न समाश्रितं जहति सन्तः । स हि वृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कमपि ॥ २८ ॥ दोषाकरोऽपि कुटिलोऽपि कलङ्कितोऽपि, मित्रावसानसमये विहितोदयोऽपि । चन्द्रस्तथापि हरवल्लभतां प्रयाति, कुर्वन्ति नैव सुजनाः श्रितदोषचिन्ताम् ॥ २९ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy