SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे, का तत्र परिदेवना ? ॥२॥ संयोगाः स्युर्वियोगान्ता, विपत्सीमाश्च संपदः । स्थादानन्दो विषादान्तो, मरणान्ता जनिर्बुवम् ॥ ३॥ वज्रकायशरीराणामर्हतां यद्यनित्यता । कदलीसारतुल्येषु, का कथा शेषजन्तुषु ॥ ४॥ अत्र द्रोणशतं दग्धं, पाण्डवानां शतत्रयम् । दुर्योधनसहस्रं च, कर्णसंख्या न विद्यते ॥५॥ उत्सत्तिरत्रास्ति विपत्तिसंयुता, न कोऽप्युपायोऽस्त्यमृतौ शरीरिणाम् । सर्वेक्षिते चाध्वनि सर्वदावहे, ध्रुवे शुचा किं ? सुकृतं विधीयते ॥६॥ देहे गेहे नवश्रोत्रविले रोगोरगान्विते । तदन्तः पतितप्राणसार्थस्य कुशलं कुतः १ ॥७॥ उच्छासावधयः प्राणाः, स चोच्छ्ासः समीरणः । समीरणाचलं नान्यद्यजीवति तदद्भुतम् ॥८॥ मरणं प्रकृतिः शरीरिणां, विकृ. तिजीवितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्, यदि जन्तुर्ननु लाभवानसौ ॥९॥ रुदता कुत एव सा पुनर्न शुचा नानुमृतापि लभ्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥१०॥ अवगच्छति मूढचेतनः, प्रियनाशं ३ हृदि शल्यमर्पितम्। स्थिरधीस्तु तदेव मन्यते, कुशलोद्धारतया समुद्धृतम् ॥ ११॥ स्वशरीरशरीरिणावपि, स्मृतसंयो गविपर्ययौ यदा । विरहः किमिवानुतापयेद्, वद बायैर्विषयैर्विपश्चितम् ॥ १२॥ न पृथग्जनवत् शुचो वशं, वशिनामुत्तम! गन्तुमर्हसि। दुमसानुमतां किमन्तरं, यदि वायौ द्वितयेऽपि ते चलाः॥ १३॥ क्रियतां नाम शोकोऽयं, यदि शोकपरो जनः । गतं प्रत्यानयेत्तं वा, प्रस्थितं विनिवारयेत् ॥ १४ ॥ यत्र वेश्मनि नो कोऽपि, मृतः 5 पूर्व ततोऽधुना । भृशमानीयतां रक्षा, जीवयामो यथा तया ॥१५॥ गतं जीर्णमिदं देहं, लभ्यते च पुनर्नवम् । नरस्य प्राकृतपुण्यस्य, मृत्युरेव रसायनम् ॥ १६ ॥ धर्मपराणां पुंसां जीवितमरणे सदैव कल्याणे । इह जीवतां विवेकः सद्गति Jain Education Intal For Privale & Personal use only ww.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy