SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यत्कर्मणां स्वाधीनं त्रिदिवं करोति च शिवं श्लाघ्यं तपस्तन्न किम् ? ॥ ३ ॥ यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानलज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम् । यत्प्रत्यूहतमः समूहदिवसं यल्लब्धिलक्ष्मीलतामूलं तद् द्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः ॥ ४ ॥ जन्मकोटिकृत मेक हेलया, कर्म तीव्रतपसा विलीयते । किं न दाह्यमतिबह्वपि क्षणादुच्छिखेन शिखिनाऽत्र दह्यते ॥ ५ ॥ उद्यापनसंबन्धिसूक्तानि ११० प्रासादे कलशाधिरोपणसमं बिम्बे प्रतिष्ठोपमं, पुण्यश्रीस्फुटसंविभागकरणं विवद्विशिष्टे जने । सौभाग्योपरि मञ्जरीप्रतिनिभं पूर्णे तपस्यावधौ, यः शक्त्योद्यमनं करोति विधिना सम्यग्दृशां सोऽग्रणीः ॥ १ ॥ लक्ष्मीः कृतार्था सफलं तपोsपि, ध्यानं सदोच्चैर्जनबोधिलाभः । जिनस्य भक्तिः क्रमतः शिवश्रीर्गुणाः स्युरुद्यापनतो नराणाम् ॥ २ ॥ वृक्षो यथा दोहदपूरणेन, कायो यथा सद्रसभोजनेन । विशेषशोभां लभते यथोक्तेनोद्यापनेनैव तथा तपोऽपि ॥ ३ ॥ सूत्राणि सन्तः सुतपोभिरुच्चैराराध्य कण्ठे दधते तथापि । मालां च सर्वोद्यमनाय नूनं, श्रेयो गुणश्रीयशसां जयस्य ॥ ४ ॥ भावसंबन्धिसूक्तानि १११ जादव्वे होइ मई अहवा तरुणीसु रूववंतीसु । सा जइ जिणवरधम्मे, करयलमज्झे ठिआ सिद्धी ॥ १ ॥ १ या द्रव्ये भवति मतिरथवा तरुणीषु रूपवतीषु । सा यदि जिनवरधर्मे करतलमध्ये स्थिता सिद्धिः ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy