SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सू. मु. ११ Jain Education लितदूतो मस्तकमासाद्य सर्वलोकस्य । परिभवति जरामरणं कुरु धर्मं विरम पापेभ्यः ॥ ९ ॥ वृद्धत्वानलदग्धस्य, सारयौवनवस्तुनः । दृश्यते देहगेहेषु, भस्मेव पलितच्छलात् ॥ १० ॥ वीक्ष्यते पलितश्रेणिर्नैव वृद्धस्य मूर्द्धनि । वृथैव जातजन्मेति, किंतु भस्म विधिर्न्यधात् ॥ ११ ॥ पहुत अग्गेवाणु जुब्वण ऊपरि जरा तणउ । दंतह हउ अजाणु पहिल नाठा पगकरी ॥ १२ ॥ पलितैः पाण्डुरीभूता, हंसा जाता वयं किल । पश्य लोकैः कृताः काकास्तदिदं कस्य कथ्यते ? ॥ १३ ॥ उभउ काई अयाणउ आवइ वाहरमिली। इगु संपइ अनइ प्राण जतनु करंता जाइसिं ॥ १४ ॥ इयत्यामपि सामग्रयां, सुकृतं न कृतं त्वया । इतीव कुपितो दन्तानंतकः पातयत्यलम् ॥ १५ ॥ लक्ष्मीवत्संबन्धिसूक्तानि ८२ लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् । शेषे धराभराक्रान्ते, शेते लक्ष्मीपतिः सुखम् ॥ १ ॥ भक्त द्वेषो जडे प्रीतिरुच्चित्तं गुरुलङ्घनम् । मुखे च कटुता नित्यं, धनिनां ज्वरिणामिव ॥ २ ॥ अन्धा एव धनान्धाः स्युरिति सत्यं तथा हि ते । अन्योक्तेनाध्वना गच्छन्त्यन्यहस्तावलम्बिनः ॥ ३ ॥ लक्ष्मि ! क्षमस्व सहनीयमिदं दुरुक्तमन्धा भवन्ति पुरुषास्तव दर्शनेन । नो चेत्कथं कथय पन्नगभोगपल्ये, नारायणः स्वपिति पङ्कजपत्रनेत्रः ॥ ४ ॥ मदिरामदमत्तोऽपि किं शृणोति च पश्यति । राजश्रीमदमत्तस्तु न शृणोति न पश्यति ॥ ५ ॥ अहो वत विचित्राणि चरित्राणि महात्मनाम् । लक्ष्मीं तृणाय मन्यन्ते, तद्भरेण नमन्ति च ॥ ६ ॥ आलिङ्गिताः परैर्यान्ति, प्रस्खलन्ति पदे पदे । अव्यक्तानि च भापन्ते, धनिनो मद्यपा इव ॥ ७ ॥ अवंशपतितो राजा, मूर्खपुत्रो हि पण्डितः । अधनेन धनं प्राप्तं, तृणवन्मन्यते जगत् Paygonal For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy