SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ GRAHARA वासंबन्धिसूक्तानि ७४ ___ यदीच्छसि वशीकर्तु, जगदेकेन कर्मणा । परापवादशस्येभ्यश्चरन्ती गां निवारय ॥१॥ परपरिवादः पर्षदि न कथञ्चन पण्डितेन वक्तव्यः । सत्यमपि तन्न वाच्यं यदुक्तमसुखावहं भवति ॥२॥ वरं मौनेन नीयन्ते, कोकिलैरिव वासराः । यावत्सर्वजनानन्ददायिनी गीः प्रवर्तते ॥३॥ तुल्यवर्णच्छदैः कृष्णकोकिलैः किल संगतः । केन विज्ञायते काकः, स्वयं यदि न भाषते ॥४॥ स्वजिह्वा नो वशे यस्य, जल्पने भोजने तथा । स भवेद्दुःखितो नित्यमात्मनो दुष्टचेष्टितैः॥५॥ हितं मितं प्रियं स्निग्धं, मधुरं परिण(चाय)तिप्रियम् । भोजनं वचनं चापि, भुक्तमुक्तं प्रशस्यते ॥६॥ स्वायत्तमेकान्तहितं विधात्रा, विनिर्मितं छादनमज्ञतायाः। विशेषतः सर्वविदां समाजे, विभूषणं मौनमपण्डितानाम् ॥७॥ मुखदोषेण वध्यन्ते, शुकसारसतित्तिराः । बकास्तत्र न बद्ध्यन्ते, मौनं सर्वार्थसाधनम् ॥ ८॥न तथा रिपुर्न शस्त्रं न विषं न हि दारुणो महाव्याधिः । उद्वेजयन्ति पुरुष यथा हि कटुकाक्षरा वाणी ॥९॥ न तथा शशी न सलिलं न चन्दनरसो न शीतला छाया । आह्वादयन्ति पुरुषं यथा हि मधुराक्षरा वाणी ॥ १०॥रे जिह्वे ! कटुकनेहे, मधुरं किं न भाषसे । मधुरं वद कल्याणि!, लोको हि मधुरप्रियः॥११॥ यदि तात! धनं नास्ति, पूर्वदुष्कृतकर्मणा । तथापि ललिता वाणी, वचने का दरिद्रता!॥ १२॥ असंभाव्यं न वक्तव्यं, प्रत्यक्षं यदि दृश्यते । यथा वानरसंगीतं, तथा तरति सा शिला ॥ १३ ॥ नैव भाग्यं विना विद्या, विना विद्यां न भाषितम् । सुभाषितविहीनस्य, जीवितान्मरणं वरम् का॥ १४ ॥ अद्धोङ्गलपरीणाहजिह्वाग्रायासभीरवः । सर्वाङ्गगं परिक्लेशं, सहन्ते मन्दबुद्धयः॥१५॥ प्रियवाक्यप्रदानेन, - Jain Education in For Private & Personal use only ainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy