SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ PANCHAMASALARMERACANCE भवद्भिः । वज्रं दुष्कर्मशैलपचयविदलने सत्तपःकर्म कार्य, सर्वानुष्ठानसारं भवभयमधना भावना भावनीया ॥ ३४ ॥ वाञ्छा सज्जनसंगमे परगुणे प्रीतिगुरौ नम्रता, विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् । भक्तिश्चार्हति शक्तिरात्मदमने संसर्गमुक्तिः खले, येष्वेते निवसन्ति निर्मलगुणास्तैरेव भूर्भूषिता ॥ ३५ ॥ हस्तो दानविधौ मनो जिनमते वाचः सदा सूनृते, प्राणाः सर्वजनोपकारकरणे वित्तानि चैत्योत्सवे । येनैवं विनियोजितानि शतशो विश्वत्रयीमण्डनं, धन्यः कोऽपि स विष्टपैकतिलकं काले कलौ श्रावकः ॥ ३६॥ निद्रान्ते परमेष्ठिसंस्मृतिरथो देवार्चनाव्यापृतिः, साधुभ्यः प्रणतिः प्रमादविरतिः सिद्धान्ततत्त्वश्रुतिः। सर्वस्योपकृतिः शुचिव्यवहृतिः सत्पात्रदाने रतिः, श्रेयोनिर्मलधर्मकर्मनिरतिः श्लाघ्या नराणां स्थितिः॥ ३७ ॥ कृत्वाऽर्हपदपूजनं यतिजनं नत्वा विदित्वाऽऽगमं, हित्वा संगमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुषां जित्वाऽन्तरारिव्रजं, स्मृत्वा पञ्चनमस्क्रियां कुरु करकोडस्थमिष्टं सुखम् ॥३८॥ उत्पत्तिर्विमले कुले यतिजने सङ्गो जिनेन्द्रे परा, भक्तिर्दानमतिर्निदानरहिता वैराग्यबुद्धिर्भवे । सर्वत्रोचितकारिता गुणवतामेकान्तपक्षग्रहः, कुमाहे विफला क्रिया सुकृतिनः कस्यापि संपद्यते ॥ ३९ ॥ उत्पत्तिः सत्कुलादौ प्रकृतिकरुणया | व्याकुला चित्तवृत्तिावृत्तिः पापयोगात्तदनु गुणकरः साधुसङ्गानुरागः । संसारारण्यभीतिगुरुशरणतया कर्मनिर्मूलनेच्छा, प्राग्जन्मोपात्तपुण्यैरिह भवति नृणां सर्वसामग्रियम् ॥ ४० ॥ भक्तिः श्रीवीतरागे भगवति करुणा प्राणिवर्गे| समग्रे, दीनादिभ्यः प्रदानं श्रवणमनुदिनं श्रद्धया सुश्रुतीनाम् । पापापोहे समीहा भवभयमसमं मुक्तिमार्गानुरागः, सङ्गो निःसङ्गचित्तैर्विषयविमुखता हयिणामेष धर्मः॥ ४१॥ कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्णनीय, दानं देयं सु तात, याहे विमा जिनेन्द्र पवाऽन्तरारिज Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy