________________
वल्यां
धर्मोपदेशसूक्तानि द्वारं १ श्लोकाः १७-३३
सूक्तमुक्ता.
पुरुषस्य यान्ति दिवसास्तस्यैव मन्यामहे, गोत्रं जन्म च जीवितं च सफलं श्लाघ्या कथा वाग्ग्मिता ॥ २६ ॥ कर्त्तव्यं जिनवन्दनं विधिपरैहर्षोल्लसन्मानसैः, सच्चारित्रविभूषिताः प्रतिदिनं सेव्याः सदा साधवः । श्रोतव्यं च दिने दिने जिन- वचो मिथ्यात्वनिर्णाशनं, दानादौ व्रतपालने च सततं कार्या रतिः श्रावकैः ।। २७ ॥ वन्द्यास्तीर्थकृतः सुरेन्द्रमहिताः पूजां विधायामला, सेव्याः सन्मुनयश्च पूज्यचरणाः श्राव्यं च जैनं वचः। सच्छीलं परिपालनीयमतुलं कार्य तपो निर्मलं, | ध्येया पञ्चनमस्कृतिश्च सततं भाव्या च सद्भावना ॥ २८ ॥ देवं श्रेणिकवत्पूजय गुरुं वन्दस्व गोविन्दवद्दानं शीलतपःप्रसङ्गसुभगां चाभ्यस्य सद्भावनाम् । श्रेयांसश्च सुदर्शनश्च भगवानाद्यः स चक्री यथा, धर्थे कर्मणि कामदेववदहो चेतश्चिरं स्थापय ॥ २९ ॥ जन्तूनामवनं जिनेशमहनं भक्त्यागमाऽऽकर्णनं, साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननम् । मायाया हननं क्रुधश्च शमनं लोभद्रुमोन्मूलनं, चेतःशोधनमिन्द्रियाश्वदमनं यत्तत् शिवोपायनं ॥३०॥ सर्वज्ञो हृदि वाचि तद्गुणगणः कायेन देशव्रतं, धर्मे तत्परता परः परिणतो बोधो बुधश्लाध्यता । प्रीतिः साधुषु बन्धुता बुधजने जैने रतिः शासने, यस्यैवं भवभेदको गुणगणः स श्रावकः पुण्यभाक् ॥ ३१ ॥ त्रैकाल्यं जिनपूजनं प्रतिदिनं सङ्घस्य
सन्माननं, स्वाध्यायो गुरुसेवनं च विधिना दानं तथाऽऽवश्यकम् । शक्त्या च व्रतपालनं वरतपो ज्ञानस्य पाठस्तथा, । सैष श्रावकपुङ्गवस्य कथितो धर्मों जिनेन्द्रागमे ॥ ३२ ॥ लक्ष्मी नविवेकसंगममयी श्रद्धामयं मानसं, धर्मः शीलदमायामयः सुचरितश्रेणीमयं जीवितम्। बुद्धिःशास्त्रमयी सुधारसमयं वाग्वैभवोज्जम्भितं, व्यापारश्च परार्थनिर्मितिमयः पुण्यैः
परं प्राप्यते ॥ ३३ ॥ सन्यायोपात्तवित्तप्रचयसफलताहेतु दानं सुपात्रे, देयं शुद्धं च शीलं सकलभयहरं पालनीयं
ASCCCOCRACMCOACH
॥
२
॥
Jain Educatio
n
al
For Private & Personal Use Only
aww.jainelibrary.org