________________
सू. मु. ९
तीर्थ, नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥ ८ ॥ अष्टषष्टिषु तीर्थेषु, यत्पुण्यं किल यात्रिया । आदिनाथस्य देवस्य दर्शनेनापि तद्भवेत् ॥ ९ ॥ भक्तिं तीर्थकरे गुरौ जिनमते स च हिंसाऽनृतस्तेयाब्रह्मपरिग्रहव्युपरमं क्रोधाद्यरीणां जयम् । सौजन्यं गुणिसङ्गमिन्द्रियदमं दानं तपो भावनां, वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गन्तुं मनः ॥ १० ॥
| देवखरूपसूक्तानि ६१
अनध्ययनविद्वांसो, निर्द्रव्यपरमेश्वराः । अनलङ्कारसुभगाः, पान्तु युष्मान् जिनेश्वराः ॥ १ ॥ येषां च देहो० । प्रशमरसनिमग्नं० । नेत्रे साम्य० । वपुरेव तवाचष्टे० । वपुश्च पर्यङ्कशयं श्लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैजिनेन्द्र ! मुद्राऽपि तवान्यदास्ताम् ॥ २ ॥ भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ ३ ॥ प्राकारमण्डपच्छत्रपर्यङ्कासनसंस्थितः । निर्दो ( पो ) मूर्त्या दृष्ट्या च, देवो नैव | जिनालरः ||४|| अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ ५ ॥ दर्पणो भद्रपीठं च वर्द्धमानककुम्भकौ । मत्स्यश्रीवत्सस्वस्तिकनन्दावर्त्ताः स्युरष्ट ते ॥ ६ ॥ पुष्पाद्यच तदाज्ञा च तद्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्तिः पञ्चविधा जिने ॥ ७ ॥ क्खंतो जिणदव्वं परित्तसंसारिओ जिओ होइ । वहू॑तो जिणदव्वं तित्थयरतं लहइ जीवो ॥ ८ ॥
१ रक्षन् जिनद्वय्यं परीत्तसंसारः जीवो भवति । वर्धयन् जिनद्रव्यं तीर्थंकरत्वं लभते जीवः ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
%%%
www.jainelibrary.org