SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Jain Education t |ष्टस्य प्रतिष्ठात्त्वमुपपादयन्नाह । भवति चेत्यादि । भवति च खलु प्रतिष्ठा शास्त्रोक्ता निजभावस्यैव कारयितृभावस्यैव देवतोद्देशान्मुख्यदेवतोद्देशेन स्वात्मन्येव स्वजीव एव परं प्रधानं यद् यस्मात्स्थापनमिह प्रतिष्ठा नतु निजभावविषयदेव| तामन्तरेणान्यस्य । वचननीत्यागमोक्तन्यायेनोच्चैरत्यर्थ । यद्यपि वचनानुष्ठानव्युत्पत्तिमहिम्ना विहितक्रियामात्र एव नियमतः | स्मर्यमाणभगवद्गुणानां स्वात्मनि स्थापनं संभवति तथापि यदेकगुणसिद्ध्युद्देशेन यदनुष्ठानं विहितं ततस्तदेकगुणद्वारा | प्रायः परमात्मसमापत्तिर्व्युत्पन्नस्य संभवतीह तु स्थापनोद्देशेनैव विधिप्रवृत्तेस्तस्या भावतः सर्वगुणारोपविषयत्त्वात्सर्वैरेव गुणैः स एवाहमिति स्वात्मनि परमात्मा स्थापितो भवतीति महान् विशेष एतच्चोच्चैरिति पदेनाभिव्यज्यतेऽयं भावस्ता - |त्त्विकप्रतिष्ठा । वाह्या तु जिनबिम्बादिन्यास एवायमिति निजभावस्यैव मुख्यदेवताविषयस्योपचारात्मिका प्रतिष्ठितत्त्वज्ञानाहितभक्तिविशेषेण लोकानां विशिष्टपूजाफलप्रयोजिकेति द्रष्टव्यं एतेन प्रतिष्ठाकारयितृगतादृष्टं पूजाफलप्रयोजकं परेषां तदभावात्तददृष्टक्षये प्रतिमापूज्यतानापत्तेश्चाण्डालादिस्पर्शेन व्यधिकरणेन तन्नाशायोगाच्चेति प्रतिष्ठाहिता चाण्डालादिस्पर्शनाश्या शक्तिः पूजाफलप्रयोजिकेति मीमांसकमीमांसितमपास्तम् । प्रतिष्ठितत्त्वज्ञानाहितभक्तिविशेषद्वारा प्रतिष्ठायाः पूजा | फलप्रयोजकत्त्वादस्पृश्यस्पर्शादिप्रतिसंधानस्य च भक्तिविशेषव्याघातकत्त्वेनानुपपत्त्यभावाच्छक्तिपक्षे चाप्रतिष्ठितत्त्वभ्रमेऽपि | विशिष्टपूजाफलापत्तेरेतेन प्रतिष्ठाध्वंस एवास्पृश्यस्पृश (स्पर्श) भावविशिष्टः पूजाफलप्रयोजक इति मणिकृन्मतमप्यपास्त| मितिदिग् । भक्तिविशेषाधायकतयैव यतः प्रतिष्ठाफलवती तत एव स्वप्रतिष्ठापितत्त्वादिविशेषा अपि पुरुषविशेषे भक्तिविशेपाधायकतयाऽऽद्रियंते तथाचोक्तं ग्रंथकृतैव पूजाविंशिकायां "सयकारियाइ एसा जायइ ठेवणाइ बहुफला केई । गुरुका- For Private & Personal Use Only ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy