SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीपोडश- टोकाद्वय| समेतम्. प्रकरणम्. योग्यतानियमाद्विधिवद्विधिना, जिनभवनस्य कारणैः प्रयोज्यकर्तृभिः कृत्वा विधानं संपादनं सिद्ध्यति, परमफलं प्रकृष्टफलं, ह्यलमत्यर्थमधिकारी आरंभको यत्र तत्त्वेन तद्भावेन ॥१॥ __ कः पुनरस्याधिकारीत्याह ॥ न्यायार्जितवित्तेशो मतिमान् स्फीताशयः सदाचारः।गुर्वादिमतो जिनभवनकारणस्याधिकारीति ॥२॥ य० न्यायार्जितवित्तेशो न्यायोपार्जितद्रव्यस्वामी, मतिमान् प्रतिभासंपन्नः, स्फीताशयः वृद्धिगतधर्माध्यवसायः, सदाचारः शोभनाचारो, गुर्खादिमतो गुरूणां पितृपितामहादीनां राजामात्यप्रभृतीनां च मतोऽभिमतो बहुमतो जिनभवनकारणस्य प्रस्तुतस्याधिकारीति शास्त्रनियुक्तत्त्वेन ॥२॥ उ. कीदृग्गुणः पुनरयमधिकारीत्याह । न्यायेत्यादि । न्यायार्जितवित्तस्येशः स्वामी, मतिमानायतिहितज्ञः, स्फीताशयप्रवृद्धधर्माध्यवसायः, सदाचारोऽनिन्द्याचारः, गुर्वादीनां पितृपितामहादिराजामात्यादीनामभिमतो बहुमतः, जिनभवनकारणस्याधिकारी शास्त्राज्ञाशुद्धत्त्वादितिरधिकारिविशेषणसमाप्त्यर्थः॥२॥ जिनभवनकारणविधानमित्युक्तं तद्गतमिदमाह ॥ कारणविधानमेतच्छ्रद्धा भूमिर्दलं च दार्वादि । भृतकानतिसंधानं स्वाशयवृद्धिः समासेन ॥३॥ य. कारणे निर्वतने प्रयोजकव्यापारे विधानमेतद्विधिरेष वर्तते प्रकार इत्यर्थः शुद्धा भूमिर्वक्ष्यमाणा दलं च दाादि दारुप्रभृति भृतकानतिसंधानं भृतकानां कर्मकराणामवञ्चनं, स्वाशयवृद्धिः शुभपरिणामवृद्धिः, समासेन संक्षेपेण ॥ ३ ॥ ॥३०॥ JainEducation For Private Personal use only P lainelibrary.org C
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy