SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Jain Education पीति पाठान्तरं नाश्रितं छन्दोभङ्गभयात् । निदर्शनमाह ज्वरशमनौषधसमयवत् ज्वरं शमयतीति ज्वरशमनं तच्च तदौषधं च तस्य समयः प्रस्तावो देशकालस्तद्वद्भवति चरमः । ज्वरशमनीयमप्यौषधं प्रथमापाते दीयमानं न कंचन गुणं पुष्णाति प्रत्युत दोषानुदीरयति तदेव चावसरे जीर्णज्वरादौ वितीर्यमाणं स्वकार्य निर्व्वर्त्तयति । एवमयमध्यवसरकल्पो वर्त्तते चरम इति भावः । इत्येवं समयविदः सिद्धान्तज्ञा विदुर्जानन्ति क्रियाविशेषणं निपुणमिति ॥ ३ ॥ उ० कुतः पुनर्हेतोश्चरमपुद्गलपरावर्त्तो भवतीत्याह । स इत्यादि । स चरमपुद्गलपरावर्त्तः कालादेव प्राधान्येने तर हेत्व|पेक्षाविलंबा भावरूपेण भवति सुकृतादीनां भावेपि सामग्र्यां प्रवेशेपि सुकृतपदं प्रकृता ( पुण्यप्रकृत्य ) भिप्रायेणान्यथा कर्म सामान्यमात्रं ग्राह्यं आदिना पुरुषकारनियत्यादिग्रहः । निदर्शनमाह ज्वरस्य शमनं यदौषधं तत्समयवत् । यथाहि ज्वरशमनौषधमपि प्रथमापाते दत्तं न गुणकृत् प्रत्युत दोषोदीरकं ज्वरजीर्णतासमये च दत्तं तद्गुणकृत्स च परिपाकाख्यपर्यायशालिकालेनैव जन्यते तथा सद्धमपधमप्यचरमावर्त्ते दत्तं न गुणकृत्प्रत्युत दोषोदीरकमेव चरमे तु दत्तं गुणकृत्स च भावपरिपाकाख्यपर्याययुक्तकालादेव भवतीति समयविदः सिद्धान्तज्ञा निपुणं यथा स्यात्तथा विदुः ॥ ३ ॥ कस्मात्पुनः चरमपुद्गलावर्त्तः प्राधान्येन लोकोत्तरतत्त्वसंप्राप्तेर्हेतुराश्रीयत इत्याह ॥ नागमवचनं तदधः सम्यक्परिणमति नियम एषोऽत्र । शमनीयमिवाभिनवे ज्वरोदयेऽकाल इति कृत्वा ॥४॥ य० नेति प्रतिषेधे आगमवचनमार्षवचनं तदधस्तस्याधस्तात् पुद्गलप्रावर्त्तादभ्यधिकसंसारस्य सम्यग्विषयविभागेन परिणमति न परिणमत्येवेत्यर्थः नियम एष प्रस्तुतोऽत्र प्रक्रमे शमनीयमिवौषधमभिनवे ज्वरोदये प्रत्यये ज्वरप्रादुर्भावे किमित्यकाल इति कृत्वाऽप्रस्ताव इति कृत्वा ॥ ४ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy