________________
चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्त एतौ युगपदेव ॥४॥ यस्यास्ति सक्रियायामित्थं सामर्थ्ययोग्यताऽविकला । गुरुभावप्रतिवन्धादीक्षोचित एव सोऽपि किल ॥५॥ देयाऽस्मै विधिपूर्व सम्यक्तन्त्रानुसारतो दीक्षा । निर्वाणवीजमेषेत्यनिष्टफलदान्यथात्यन्तम् ॥ ६॥ देशसमग्राख्येयं विरतिया॑सोऽत्र तद्वति च सम्यक् । तन्नामादिस्थापनमविद्रुतं खगुरुयोजनतः ॥ ७ ॥ नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । तत्स्थापना तु दीक्षा तत्त्वेनान्यस्तदुपचारः॥८॥ कीारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन । नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् ॥९॥ तत्संस्कारादेषा दीक्षा सम्पद्यते महापुंसः। पापविषापगमात् खलु सम्यग्गुरुधारणायोगात् ॥ १० ॥ सम्पन्नायां चास्यां लिङ्गं व्यावर्णयन्ति समयविदः । धमैकनिष्ठतैव हि शेषत्यागेन विधिपूर्वम् ॥ ११ ॥ वचनक्षान्तिरिहादौ धर्मक्षान्त्यादिसाधनं भवति । शुद्धं च तपो नियमाद्यमश्च सयं च शौचं च ॥ १२ ॥ आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्व शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ॥ १३॥ ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु भवति तन्मयता । सूक्ष्मालोचनया संवेगः स्पर्शयोगश्च ॥ १४ ॥ स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्रमविदितं त्वन्यत् । वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलदः ॥१५॥ व्याध्यभिभूतो यद्वन्निविण्णस्तेन तक्रियां यत्नात् । सम्यक्करोति तद्वद्दीक्षित इह साधुसचेष्टाम् ॥ १६॥ १२॥
JainEducation.intal
For Private & Personal use only