SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ ५९॥ धिगतिः सद्ग्रन्थानां रहस्यशास्त्राणामाप्तिर्वा । श्रवणमर्थस्य तत्त्वाभिनिवेशो निश्चितप्रामाण्यक तत्त्वज्ञानं परमं प्रकृष्टं टीकाद्वय फलं यस्य तत्तथा ॥४॥ अपरशुश्रूषामुपदर्शयति ॥ समेतम् विपरीता त्वितरा स्यात्प्रायोऽनय देहिनां सा तु । या सुप्तनृपकथानकशुश्रूषावस्थिता लोके ॥५॥ | य. विपरीता तूक्तविपरीता इतरा अपरमा शुश्रूषा स्यात् । प्रायो बाहुल्येनानायानुपकाराय देहिनां शरीरिणां सा तु नासा पुनरितरशुश्रूषा या कीदृशी । सुप्तश्चासौ नृपश्च शय्याव्यवस्थितो लीलया स्वापार्थ किश्चित्किञ्चित् शृणोति तस्य कथा-18 नके क्वचिदाख्यायिकायां शुश्रूषा श्रवणेन्द्रियव्यापृतिस्तद्वत् । सुप्तनृपकथानकशुश्रूषावत् । स्थिता प्रतिष्ठिता प्रसिद्धा लोके सर्वत्रैव । यथा नृपस्य कथानकश्रवणे न महानादरोऽथ च किञ्चिच्छृणोत्येवमयमप्यपरमशुश्रूषायामादरमन्तरेण किञ्चिच्छृणोति ॥ ५॥ उ० अपरमशुश्रूषामुपदर्शयति । विपरीतेत्यादि । विपरीता तूक्तविपरीतैवेतराऽपरमशुश्रूषा स्यात् प्रायो बाहुल्येनानयानुपकाराय देहिनां सा तु सा पुनरितरशुश्रूषा श्रवणव्यावृत्ति(पृति)स्तद्वत् स्थिता प्रसिद्धा लोके सर्वत्रैव यथा नृपस्य कथानकवणे न महानादरोऽथ च किञ्चिच्छृणोति अनुषङ्गश्रवणमात्ररसिकत्त्वात्तथाऽपरमशुश्रूषावानपि लीलया किञ्चिच्छुणोति नतु परमादरेणेत्यर्थः ॥ ५॥ Jain Educati For Private Personal Use Only him.jainelitrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy