SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ पर्यालो वितन्यते श्रीषोडश- षोडशके च श्रीमद्धरिभद्रसूरिणा " स्याद्वादागमार्थ" मनुसृत्य खेतरानेकदर्शनीयसमरूपभिदामपाकृत्यात्युत्तानाशयेन तदुपपत्तिः समासाधि । सर्वथायं षोडशकग्रन्थो जैनागमपूर्णतरप्रामाण्यावाहक इति साक्षात् प्रकाशयति तथाप्यन्यदीयदर्शनोक्ततत्त्वेषु माऽसूया विधेया, तदर्शित प्रकरणम् सारश्च मध्यस्थदृष्टिधारकेण मनुष्येण यत्नतोऽभिग्राथ इत्याद्यनल्पकल्पान् कल्पयित्वा जैनदर्शनीयरहस्यमत्युत्तमप्रौढतां बरीमति सर्वव्या॥४ ॥ पकत्वनिष्पत्तिंच तदैवाऽभिव्रजति । तदर्थप्रतिपादकोऽत्र तदुक्तश्लोको विलिख्यते. ___ तत्रापि च न द्वेषः, कार्यो विषयस्तु यत्नतो मृग्यः; तस्यापि न सद्वचनं, सर्वं यावचनादन्यत् ॥ १ ॥ जैनदर्शनेतरवेदान्तादिशास्त्रप्रतिपादितवस्तुतत्त्वानि सम्यक्तां न परिवहन्ति. यतः सर्वज्ञप्ररूपितान्येव तानि निधितया सर्वजनमान्यानि समुचितार्थभाञ्जि प्रशस्यन्ते नान्यथा, मिथ्या श्रुतमपि सम्यग् दृष्टया सङ्गृहीतंचेत्तदपि सम्यक्त्वरूपेण परिणमतीति " श्रीनन्दी| सूत्रे" प्ररूपितम्, मिथ्यादृष्टिपरिगृहीतं सम्यकश्रुतमपि मिथ्यात्वेन परिणमत्येव, प्राप्तसम्यक्त्वदृष्टिना पुंसा समानि सदसद्वचांसि सम्यक्तयैव परिणीयन्ते, इत्थं जैनागमानुसारेण परकीयद्वेषादिपरिहारंख्यापयित्वा श्रीमान् हरिभद्रसूरीश्वरो जैनशासनस्य पूर्णतर महत्ता पोषयति, अथैवं सङ्क्षेपतः षोडशकव्याख्यां पर्यालोच्य सद्यः समुत्पन्नामेयप्रमोदवशंवदेन मयाऽत्रैतावदवश्यतया निवेद्यते, | अस्य षोडशकाभिधेयस्य ग्रन्थस्यविधानेन श्रीमान् हरिभद्रसूरि रतवासिजनानां वचोऽग्राह्यमुपकारमकार्षीत्. भारतभूमिवर्तिनां विद्वद्वरेण्या ना धुरि तस्य सूरीश्वरस्याभिधानमाद्याङ्कभाक्, सौवर्णेयाक्षराङ्कितंच सातत्येन विराजते, अस्य षोडशकप्रकरणस्य प्राक्तनानि त्रीणि चदत्वारि प्रत्यन्तराणि मेलयित्वा यथामति परिशोधितोऽयं ग्रन्थः, क्वचिच्च प्रमादभ्रान्त्यादिपुरुषदोषवशात् पतितं स्खलितं वास्यात् तत्तुगुण ॥४॥ JainEducation int For Private Personal Use Only AIMiainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy