SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ संग्रहणी वृत्तिा पनरस चुलसीइसयं, इह ससिरविमंडलाइं तक्खित्तं । जोअणपणसयदसहिअ, भागा अडयाल इगसट्टा ॥ ६७ ॥ व्याख्या-इह जम्बूद्वीपे चन्द्रयोः सूर्ययोश्च दक्षिणोत्तरायणे कुर्वतोः प्रतिदिनभ्रमिक्षेत्रलक्षणानि निजविम्बप्रमाणविष्कम्भाणि यथाक्रमं पञ्चदश चतुरशीत्यधिकशतं च मण्डलानि भवन्ति,तेषां चान्तरालसहितानां सामस्त्येन क्षेत्रविष्कम्भमानं योजनानां पञ्च शतानि दशाधिकानि अष्टचत्वारिंशच्चैकपष्टिभागा योजनस्य ५१०४५, तथाहि-सूर्यस्य चतुरशीत्यधिकशतमण्डलानामन्तराणि त्र्यशीत्यधिकं शतं, एपां च विष्कम्भमानं द्वे द्वे योजने, अतस्ते त्र्यशीत्यधिकशतेन गुण्येते, जातानि त्रीणि योजनशतानि षषष्ट्यधिकानि ३६६, ये च सूर्यमण्डलविष्कम्भसम्बन्धिनोऽष्टाचत्वारिंशदेकपष्टिभागास्ते चतुरशीत्यधिकशतेन गुण्यन्ते, जातान्यष्टाशीतिशतानि द्वात्रिंशदधिकानि ८८३२, तेपां योजनानयनार्थमेकपष्टया भागे हृते लब्धं चतुश्चत्वारिंशं योजनशतमष्टचत्वारिंशच्चैकपष्टिभागा योजनस्य १४४ १६ एतत्पूर्वराशौ प्रक्षिप्यते । जातं यथोक्तं (पूर्वोक्तं ) क्षेत्रमानं । यदा तु सर्वाभ्यन्तरात् मण्डलात्परतो यावत्सर्ववाद्यमण्डलपर्यन्तः सर्ववाह्याद्वा मण्डलादर्वाक् यावत्सर्वाभ्यन्तरमण्डलान्त इत्ययं चारस्याध्या चिन्त्यते, तदा पूर्णानि पञ्च योजनशतानि दशोत्तराणि, तथाहि-यदि सूर्यस्यैकेनाहोरात्रेण द्वे योजने एकस्य च lain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy