________________
संग्रहणी
॥ १७ ॥
व्याख्या - तानि - पूर्वप्रक्रान्तानि व्यन्तरनगराणि यथासंख्यं सम्बन्धाद्गुरूणि - उत्कृष्टानि जम्बूद्वीपसमानि वृत्तत्वादायामविष्कम्भाभ्यां लक्षयोजनप्रमाणानीत्यर्थः । जघन्यानि तु भरतस्येदं भारतं - भरतक्षेत्रं तत्तुल्यानि पडिश - |त्यधिकपञ्च योजनशतानि षट् चैकोनविंशतिभागा योजनस्य ५२६१६ इत्येवंप्रमाणानीत्यर्थः । मध्यमानि पुनर्महावि| देहसमानानि त्रयस्त्रिंशत्सहस्राः पट् शतानि चतुरशीत्यधिकानि चत्वारश्चैकोनविंशतिभागा योजनस्य ३३६८४ इत्येवंप्रमाणानीत्यर्थः । एतन्नगरवासिनः पुनर्व्यन्तरा अष्टविधाः अष्टप्रकारास्तद्यथा - पिशाचाः भूताः यक्षाः राक्षसाः | किन्नराः किंपुरुषाः महोरगाः गन्धर्वाश्च । तत्र पिशाचाः स्वभावतः प्राचुर्येण सुरूपाः सौम्यदर्शना हस्तग्रीवासु रत्न| मयविभूषणाः पञ्चदशविधास्तद्यथा - कूष्माण्डाः पटकः जोषाः आह्निकाः कालाः महाकालः चोक्षः अचोक्षाः | तालपिशाचाः मुखरपिशाचाः अधस्तारकीः देहीं महादेहीः तूष्णीकः वनपिशाचाः इति । भूताः सुरूपाः सौम्या नानाभक्तिविलेपना नवविधास्तद्यथा-सुरूपः प्रतिरूपः अतिरूपाः भूतोत्तमाः स्कन्दिकाः महास्कन्दिकः महावेगाः प्रतिच्छन्नः आकाशगां इति । यक्षा गम्भीराः प्रियदर्शना विशेषतो मानोन्मानप्रमाणोपपन्ना रक्तपाणिपादत| लनखतालुजिह्वोष्ठा भाखरकिरीटधारिणो नानारत्नात्मकविभूषणास्त्रयोदशविधास्तद्यथा - पूर्णभद्राः माणिभद्राः श्वेतभद्राः हरिभद्राः सुमनोभद्राः व्यतिपाकभद्रः सुभद्राः सर्वतोभद्राः मनुष्यपक्षाः धनाधिपतयः नाहारीः रूपयक्षः यक्षोत्तम इति । राक्षसा भीमा भीमदर्शनाः करालरक्तलम्बोष्ठास्तपनीय विभूषणा नानाभक्तिविलेपनाः सप्तविधास्त
Jain Education International
For Private & Personal Use Only
24
वृत्ति.
॥ १७ ॥
.www.jainelibrary.org