________________
R-4
संग्रहणी- त्रीणि, बलीन्द्रदेवीनां तु सार्धानि चत्वारि पल्योपमानीत्यर्थः। शेषाणां चमरवलिव्यतिरिक्तानां नागकुमारादिन- वृत्तिः .
वनिकायसम्बन्धिनां, "दाहिणत्ति" दाक्षिणात्यानां धरणेन्द्रप्रमुखाणां द्वितीयमधैं यस्य तत् द्यधं पल्योपमं, सार्द्ध पल्योपममित्यर्थः । उत्तरत उत्तरदिग्वर्त्तिनां भूतानन्देन्द्रप्रभृतीनां वे पल्योपमे देशोने किञ्चिदूने भवतः "बहुवयणेण दुवयणं"ति प्राकृतलक्षणात् सर्वत्र द्विवचने बहुवचनं । देसूणा इति च नपुंसकविशेषणत्वेऽपि पुस्त्वं प्राकृतत्वादेव, यदाह पाणिनिः खप्राकृतलक्षणे-लिङ्गं व्यभिचार्ययीति । 'तद्देवित्ति' धरणप्रभृतीन्द्रसम्बन्धिदेवीनामर्धपल्योपमं ।। भूतानन्दप्रमुखेन्द्रदेवीनां तु देशोनं पल्योपमं आयुःस्थितिः 'उकोसन्ति' उत्कृष्यत इत्युत्कर्षमुत्कृष्टमित्यर्थः । इह
च दशवर्षसहस्रेभ्य ऊर्ध्वं यावत् सागरोपमादिकमसम्पूर्ण तावत् सर्वमपि मध्यममायुरवगन्तव्यं । तच्चानुक्तमपि। है स्वयमवगम्यत इति साक्षान्नोक्तं । एवमन्यत्रापि मध्यममायुः स्वयमेव भावनीयमिति ॥४॥ एवं भवनवासिदेवदेवीनां ६ जघन्यमुत्कृष्टं चायुरभिधाय व्यन्तराणां तद्देवीनां च जघन्यमुत्कृष्टं चायुः प्रतिपादयन् पादोनगाथामाह
वंतरयाण जहन्नं, दसवाससहस्स पलियमुकोसं । देवीणं पलिअद्धं, आयुरित्यनुवर्तते, ततो व्यन्तरदेवदेवीनां दशवर्षसहस्राणि जघन्यमायुः, उत्कृष्टं पुनर्देवीनां पृथगभिधानाद्देवानां पल्योपम,देवीनां तु पल्योपमा मिति केचिद्यन्तरामरीणां पल्योपममुत्कृष्टमायुराचक्षते, श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितय इति ज्ञापकात्, तच तेषां सिद्धान्तापरिज्ञानविजृम्भितम् , यतः प्रज्ञापनासूत्रम्-"याणमन्तरीणं है
OC
wain Education inte
For Private Personal Use Only
R
w.jainelibrary.org